१०

देवा अन्योन्यस्य श्रैष्ठ्ये तिष्ठमानाश् चतुर्धा व्युदक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैस् तान् वा एतेन बृहस्पतिर् अयाजयत् तेषाम् इन्द्रो ऽभवत् तद् य एतेन यजते भवति ते वा अन्योन्यस्याभिद्रोहाद् अबिभयुस् तेषां याः प्रियास् तन्वा आसंस् ताः समवाद्यंस् ताः समवामृशन् ॥
श्रैष्ठ्ये : फ़्न् एमेन्देद्। एद्।: श्चैष्ठ्ये।

यो नस् तन् नपाद् यो नो ऽन्योन्यस्मै द्रुह्याद् इत एव सं निरृछात् ॥ इति ते यदा समवामृशंस् ततो देवा अभवन् परासुरास् तद् य एवं विद्वांसः समवमृशन्ति भवन्त्य् आत्मना परैषां भ्रातृव्या भवन्ति यं कामयेत ऋध्नुयाद् इति तं प्रथमम् अवमर्शयेद् ऋध्नोति यदि कामयेत सर्वे सदृशाः स्युर् इति सर्वान्त् सहावमर्शयेत् सर्वे ह सदृशा भवन्ति ये वै ते समवामृशन्न् अपि वा इदानीं ते ऽन्योन्यस्मै न द्रुह्यन्ति तस्मात् सतानूनप्त्रिणे न द्रोग्धवै यद् द्रुह्येत् प्रियायै तन्वै द्रुह्येत् ते वा अमुष्मिन्न् आदित्ये प्रियास् तन्वः सन्न्यदधत तस्माद् एष तेजिष्ठं तपति तस्मात् सूर्यदेवत्या हि सर्वे सोमा गृह्यन्ते ऽथो अत्र वै देवानां प्रियास् तन्वस् ता एवावरुन्द्ध आपतये त्वा गृह्णामीत्य् अग्नये तेन वसुभ्यो गृह्णाति परिपतये त्वेति सोमाय न रुतेद्रेभ्यस् तनूनप्त्रा इतीन्द्राय तेन मरुद्भ्यः शक्मने शाक्वरायेति वरुणाय तेनादित्येभ्य एतेभ्यो वै तद् देवेभ्यो ऽग्रे गृह्यते तेभ्य एवैनद् गृह्णाति चतुर् गृह्णाति चतुर्धा हि ते व्युदक्रामन्न् आपतये त्वा गृह्णामीत्य् आत्मानम् एव तेन गृह्णाति परिपतये त्वेति प्रजां तेन तनूनप्त्रा इति यज्ञं तेन शक्मने शाक्वरायेति पशूंस् तेन यो वै देवान्त् साध्यान् वेद सिध्यति ह वा अस्मै यत्र कामयेत इह मे सिध्येद् इतीमे वै लोका देवाः साध्या आत्मानम् एव दीक्षया स्पृणोति प्रजाम् अवान्तरदीक्षया सन्तराम् मेखलाम् आयछते कनीयो व्रतम् उपैत्य् अन्तरा ह्य् आत्मानं प्रजा द्विव्रतेन भवितव्यं द्वौ वा ऋतू अहश् च रात्रिश् च यद् एकव्रतः स्यात् पत्नीम् अन्तरियाद् या ते अग्ने रुद्रिया तनूर् इति व्रतं व्रतयत्य् एषा वा अस्मिन्न् एतर्हि देवता तां प्रीणाति तस्यां हुतं व्रतयति यद् एतो ऽन्यथा व्रतयेद् रुद्र एनम् अभिमानुकः स्याद् देवताभिर् वा एष सायुज्यं गछति यो दीक्षते यञ् शीताभिर् मार्जयेत शमयेयुर् अथो यथेदम् अद्भिर् अग्निर् उपसृष्ट एवं स्याद् अथ यत् तप्ताभिर् मार्जयते शान्त्यय् अथो तेजो वै मदन्तीस् तेज एवावरुन्द्धे ॥
यो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
कामयेत : फ़्न् सन्धि इस् नोत् wओर्किन्ग् हेरे।
एतो : फ़्न् म्स्स्। एद्।: यदेतो

इत्य् उपरिकाण्डे सप्तमः प्रपाठकः ॥म्स्_३,७।१०॥