युक्तो ऽन्यो ऽनड्वान् भवति विमुक्तो ऽन्यो ऽथातिथ्यं निर्वपति यज्ञस्य सन्तत्यै पत्न्या हस्तान् निर्वपति पत्नी वै पारीणह्यस्येशे पत्न्यैव रातम् अनुमतं क्रियते यद् वै पत्नी यज्ञे करोति तन् मिथुनं मिथुनत्वाय वै पत्न्या हस्तान् निर्वपत्य् एष वै पत्न्या यज्ञस्यान्वारम्भो यद् यज्ञे करोत्य् अन्वारम्भाय वै पत्न्या हस्तान् निर्वपत्य् अग्नेस् तनूर् असि विष्णवे त्वेति गायत्रीं तेन छन्दसा गृह्णाति सोमस्य तनूर् असि विष्णवे त्वेति त्रिष्टुभं तेनातिथेर् आतिथ्यम् असि विष्णवे त्वेति जगतीं तेनाग्नये त्वा रायस्पोषदे विष्णवे त्वेत्य् अनुष्टुभं तेन श्येनाय त्वा सोमभृते विष्णवे त्वेति गायत्री वै श्येनः सोमभृत् तां वा एतत् पुनर् आलभते ऽयातयाम्नीं पाङ्क्तत्वाय पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धैतद् वै छन्दांस्य् अग्रहीत् तैश् छन्दोभिर् गृहीतैर् यज्ञं गृह्णाति यावन्तो वा अतिथिम् अन्वायन्त्य् अपि तेषां भागश् छन्दांसि वा एतम् अमुतो ऽन्वायन्ति तेभ्य एष भागः क्रीयते वरुणो वै यज्ञः क्रीतो विष्णुः प्रततः प्रततो वा एतर्हि यज्ञस् तस्माद् वैष्णवो नवकपालो भवति त्रिवृतं वा एतद् यज्ञमुखे व्यायातयन्ति त्रिवृता प्रयन्ति ते वै त्रयस् त्रिकपालास् त्रिकपालो वैष्णवो देवतया विष्णुं वै देवा आनयन् वामनं कृत्वा यावद् अयं त्रिर् विक्रमते तद् अस्माकम् इति स वा इदम् एवाग्रे व्यक्रमताथेदम् अथादस् तस्मात् त्रिकपालो वैष्णवः सोमस्य वा एतद् आतिथ्यं यद् आतिथ्यम् अथवा एतद् अग्नेर् आतिथ्यं यद् अग्ना अग्निं मन्थन्त्य् अथो यज्ञाय वा एतत् क्रीताय देवतां जनयन्त्य् अथो तेज एवास्मै जनयन्त्य् अथो उपसत्सु वावास्मा एतद् वीरं जनयन्त्य् आ हास्य वीरो जायते ये वै देवाः साध्या यज्ञम् अत्यमन्यन्त तेषां वा एतद् यद् अतिरिक्तं यज्ञे क्रियते ऽतिरिक्तं वा एतद् यज्ञे क्रियते यद् अग्ना अग्निं जुह्वति यच् चषालाद् उपर्यूपस्य तद् एवैनां स्पृशति संस्थाप्या३न् न संस्थाप्या३म् इति मीमांसन्ते यत् संस्थापयेद् यज्ञमुखे यज्ञं संस्थापयेद् आतिथ्यं वा उपसदां प्रयाजास् तानूनप्त्रम् आशीस् तस्माद् इडान्तम् एव कार्यम् आतिथ्यं वा उपसदां प्रयाजास् तस्मात् ता अप्रयाजा उपसदो वा आतिथ्यस्यानुयाजास् तस्मात् तास् तिस्रस् त्रयो ह्य् अनुयाजाः शिरो वा आतिथ्यं ग्रीवा उपसदो ऽथैष इतरो यज्ञः संहितः प्रजापतेर् वा एतानि पक्ष्माणि यद् अश्ववारा अस्य भ्रुवा इक्षुकाण्डे यज्ञमुखं प्रजापतिर् यज्ञमुखाद् एवाधि यज्ञमुखं प्रतनुते ऽश्वो वै मेध्यो यज्ञस् प्रजापतिः प्राजापत्यो ऽश्वस् तस्माद् आश्ववारः प्रस्तरः कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसाम् अपहत्यै ॥म्स्_३,७।९॥
पारीणह्यस्येशे : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।