०८

इति वरुणम् एवैनम् अकः स्वयैवैनं देवतया समर्धयति वनेषु व्य् अन्तरिक्षं ततानेति वाससा पर्याणह्यति सर्वदेवत्यं वै वासः सर्वाभिर् वा एतद् देवताभिर् यज्ञं क्रीतं परिश्रयति धूर् असि ध्वर ध्वरन्तम् इत्य् आह रक्षसां ध्वरायै रक्षसामन्तरित्यै वारुणम् असि वरुणस् त्वोत्तभ्नात्व् इति वारुणं ह्य् एष एतर्हि वरुणदेवत्यं मनसाछ यन्ति महिमानम् एवास्याछ यन्त्य् अनसा वहन्ति तस्माद् अनोवाह्यम् ओषधयः फलं पच्यन्ते शीर्षाहार्यम् ओषधयः फलं पच्येरन् यत् सोमं क्रीतं शीर्ष्णा हरेयुस् तस्माद् गिरा ओषधयः शीर्षाहार्यं फलं पच्यन्ते शीर्ष्णा हि सोमं क्रीतं हरन्ति प्रच्यवस्व भुवनस्पता इति भूतानां ह्य् एष पतिर् विश्वान्य् अभि धामानीति विश्वानि ह्य् एष धामान्य् अभि प्रच्यवते मा त्वा परिपरिणो मा परिपन्थिनो मा त्वा वृका अघायवो विदन्न् इति यत्र वा एनम् अद आह्रियमाणं सामिगन्धर्वो विश्वावसुर् अमुष्णात् तादृशेभ्यो वावास्मा एतद् रक्षोभ्यो भीषा स्वस्तिम् अकर् वरुणो वा एष क्रीतो यजमानस्य गृहम् ओह्यते स ईश्वरो ऽशान्तो यजमानं हिंसितोर् यद् आह नमो मित्रस्य वरुणस्य चक्षसा इति शमयत्य् एव शान्त एवोह्यते यजमानस्याहिंसायै सर्वाभ्यो वा एष देवताभ्या उह्यते यद् एकोल्मुकेन प्रतितिष्ठेत् पितृदेवत्यो ऽस्य यज्ञः स्याद् अग्निर् महत् समाधेयो ऽग्निर् वै सर्वा देवताः सर्वाभिर् वा एतद् देवताभिर् यज्ञम् आयन्तं प्रतितिष्ठत्य् अग्नीषोमौ वा एतौ सम्भवतो यजमानं वा एता अभिसम्भवेतां यजमानस्य वा पशूंस् तद् य एष पशुर् धार्यते तम् एव भागधेयम् अभिसम्भवतो देवता वा एतं पशुं धार्यमाणं नाभिप्राच्यवन्तास्मिन् यज्ञ आशंसमानाद् यो ऽयम् इतरस् तम् अग्नीषोमा उपप्राच्यवेतां तस्माद् एषो ऽग्नीषोमीयो ऽग्नीषोमाभ्यां वा एष मेधायात्मानम् आलभते यो दीक्षते स वा एतेनैव पशून् आत्मानं निष्क्रीणीते स्थूलः पीवा स्याद् आत्मनो निष्क्रीत्यै तस्माद् अग्नीषोमीयस्य पशोर् नाशितव्यं पुरुषो ह्य् एतेनात्मानं निष्क्रीणीते तस्माद् अग्नीषोमीये संस्थिते यजमानस्य गृहे ऽशितव्यं तर्हि निष्क्रीतो ऽनृणो वार्त्रघ्नं वा एतत् सोमो वै वृत्रः पूर्वेद्युर् वा इन्द्रो वृत्रम् अहन् पूर्वेद्युर् वावैनम् एतत् सृत्वाथापरेद्युर् अभिषुणोति वरुणपाशाभ्यां वा एषो ऽभिधीयते यो दीक्षते ऽहोरात्रे वरुणपाशौ यद् दिवा संस्थापयेद् अनुन्मुक्तो वरुणपाशाभ्यां स्यान् नक्तं संस्थाप्यो वरुणपाशाभ्याम् एवोन्मुच्यत आत्मनो ऽहिंसायै ॥म्स्_३,७।८॥