०६

यत् कर्णगृहीतया क्रीणीयाद् वार्त्रघ्नी स्याद् यञ् शृङ्गाभिहितया मनुष्यदेवत्या यत् पदि बद्धया पितृदेवत्या यद् अबद्धयायता स्याद् यद् आह मित्रस् त्वा पदि बध्नात्व् इति मित्रस्यैवैनां पाशेन यछति पूषाध्वनः पात्व् इतीयं वै पूषेयम् एवास्या अध्वानं सम्भरतीन्द्रायाध्यक्षायेतीन्द्रो वै देवानाम् ओजिष्ठस् तम् एवास्या अध्यक्षम् अकर् अनु त्वा माता मन्यताम् अनु पितेत्य् अनुमत एवैनं मात्रा पित्रा भ्रात्रा सख्या क्रीणाति सा देवि देवम् अछेहीति देवी ह्य् एषा देवः सोम इन्द्राय सोमम् इतीन्द्राय ह्य् एषा सोमम् अछैति रुर्द्रस् त्वावर्तयत्व् इति रुद्रम् एवास्याः परस्ताद् दधाति स्वस्ति सोमसखा पुनर् एहीति प्रत्यक्षम् एवालब्ध रुद्राय वा एतत् पशून् अपिदधाति यद् आह रुद्रस् त्वावर्तयतु यद् आह स्वस्ति सोमसखा पुनर् एहीति स्वस्तिम् एवास्यै पुनर् आवृत्तायै दधाति वाग् वै सोमक्रयणी सा देवरूपाणि प्रविशति यद् आह वस्व्य् असि रुद्रासीतीदम् असीदम् असीति वाग् वैनाम् एतद् आह यद्यद् भवति यद् वा एतत् किञ्च वदत्य् एतां वा एतद् आप्त्वावरुन्द्धे षट् पदान्य् अनु निष्क्रामति षड् वा अहानि वाग् विभज्यते न वै षष्ठम् अहर् वाग् अतिवदति सर्वा वै षष्ठे ऽहन् वाग् आप्यते यावत्य् एव वाक् ताम् आप्नोति दक्षिणेनार्धेन दक्षिणम् अर्धम् अनु निष्क्रामति तस्माद् दक्षिणेन हस्तेनान्नम् अद्यते तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यवत्तरस् तस्माद् दक्षिणम् अर्धं वयांस्य् अनु पर्यावर्तन्ते सप्तमे पदे जुहोति सप्त छन्दांसि छन्दांसि वाग् यावत्य् एव वाक् ताम् आहुत्याप्त्वावरुन्द्धे सप्त छन्दांसि सप्त होत्राः सप्त ग्राम्याः पशवः पशूंस् तान् एवावरुन्द्धे बृहस्पतिष् ट्वा सुम्ने रम्णात्व् इति ब्रह्म वै बृहस्पतिर् ब्रह्मणैवैनां यछति रुद्रो वसुभिर् आचक इति रुद्रम् एवास्या वसुभिर् आकर्तारम् अकः पृथिव्यास् त्वा मूर्धन्न् आजिघर्मीत्य् एष वै पृथिव्या मूर्धा यद् देवयजनम् इडायास् पद इति गौर् वा इडा तस्या वा एतत् पदं घृतवति स्वाहेति स्वाहाकारेणैवैनां यछति ॥म्स्_३,७।६॥
इति : फ़्न् स्होउल्द् बे आचका इति (आचके अन्द् इति)

हिरण्यं निधाय जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयात् पशवो वै घृतं पशवः पदं वज्रं स्फ्यो यत् स्फ्येन पदं परिलिखति वज्रेण वा एतद् यजमानाय पशून् परिगृह्णाति विषाणयानुपरिलिखति सयोनीन् एवास्मै पशून् परिगृह्णाति स्थाल्यां पदं संवपत्य् अस्या वा एषाधिक्रियत इयं हि पशूनां योनिः स्व एवैनान् योनौ दधाति शोचन्ति वा एतत् पशवो योनेश् छिन्ना यद् अप उपसृजति शमयत्य् एव यजमानाय पदं प्रयछति तद् अध्वर्युर् अपशुर् भवति यजमानाय हि पशून्त् सम्प्रादाद् यद् आह तव राया इति तद् अध्वर्युं पशुष्व् आभजति तेनाध्वर्युः पशुमान् गृहेषु पदं निदधाति गृहेष्व् एवास्य पशून् दधाति स्वर्गो वै लोक आहवनीयो यद् आहवनीय उपवपेद् अन्यलोके ऽस्य पशून् दध्याद् गार्हपत्या उपवपति गार्हपत्यं हि पशवो ऽनूप तिष्ठन्ते पशुभिर् एवैनं सम्यञ्चं दधाति पशवो वै पदम् अग्नी रुद्रो यद् अग्निमत्य् उपवपेद् रुद्रायास्य पशून् दध्याद् यत्र शान्तं तद् उपोप्यं पशूनाम् अप्रदाहाय यत् सोमक्रयण्या पत्नीं सङ्क्शापयन्ति मिथुनत्वाय त्वष्ट्रिमन्तस् त्वेति त्वष्टा हि रूपाणि विकरोति सपेमेति सपाद् धि प्रजाः प्रजायन्ते सूर्यस्य चक्षुर् आरुहम् इत्य् एष वा अपरिपरः पन्था अरक्षस्यो येनासा आदित्य एत्य् अमुष्य वा एतद् आदित्यस्य पथ इति वृणक्ति विन्दते वस्व् इति वसो ह्य् एष विन्दते यः सोमं क्रीणाति ॥