चतुर्गृहीतम् आज्यं भवति चतुष्पादो वै पशवः पशून् एवावरुन्द्धे हिरण्यम् अवधाय जुहोत्य् आग्नेयं घृतम् अग्निजं हिरण्यं सतनूर् एव सतेजा हूयत एषा वा अग्नेः प्रिया तनूर् यद् घृतं तेजो हिरण्यं यद् धिरण्यम् अवधाय जुहोत्य् अग्नेर् वा एतत् प्रियां तन्वं तेजसा समर्धयत्य् अथो रूपाण्य् एव ग्राहयति पशवो वै घृतं रेतो हिरण्यं यद् धिरण्यम् अवधाय जुहोति पशुषु वा एतद् रेतो दधाति तस्माद् अनस्थकाद् रेतसो ऽस्थान्वन्तः पशवः प्रजायन्ते बद्धेन जुहोति तस्मात् पशूनां गर्भा अप्रपादुकाः प्रपादुकाः पशूनां गर्भाः स्युर् यद् अबद्धेन जुहुयाद् जूर् असीति यद् वाव जवत इत्थम् असा३द् इत्थम् असा३द् इति तद् अस्या जूत्वं धृता मनसेति मनसा हि वाचं दाधार जुष्टा विष्णवा इति यज्ञायैवैनां जुष्टां विष्णवे ऽकस् तस्यास् ते सत्यसवसः प्रसव इति वाचा हि प्रसूतं क्रियते तन्वो यन्त्रम् अशीय स्वाहेत्य् आशिषम् एवाशास्ते शुक्रम् असि चन्द्रम् असीत्य् उद्धरति स्वर्गस्य लोकस्य समष्ट्यै वाग् वै सोमक्रयणी शास्ति वावैनाम् एतत् तस्मात् प्रजाः सृष्ट्वा प्रजायन्ते वत्सो जातः स्तनम् इछति स्तनं कुमार इछति चिद् असीति यद् वाव चिकित्सत इत्थम् असा३द् इत्थम् असा३द् इति तद् अस्याश् चित्त्वं मनासीति यद् धि मनसा मन्यते यन् मनसाभिगछति तद् वाचा वदति धीर् असीति यद् वाव ध्यायतीइत्थम् असा३द् इत्थम् असा३द् इति तद् अस्या धीत्वं दक्षिणासीति यत् स्विद् वाचा दीयते तद् अस्या दक्षिणात्वं यज्ञियासीति वाग् घि यज्ञिया क्षत्रियासीति यं हि वाग् जुषते स क्षत्रियो ऽदितिर् अस्य् उभयतःशीर्ष्णीति यत् स्विद् आदित्यः प्रायणीय आदित्य उदयनीयस् तद् अस्या उभयतःशीर्षत्वं सा नः सुप्राची सुप्रतीची भवेति सुप्राची ह्य् एषा प्रायणीये सुप्रतीच्य् उदयनीये ॥म्स्_३,७।५॥
असा३द् : फ़्न् एमेन्देद्। एद्।: असा३द्