शुन्ध सोमम् आपन्नं निरस्य ॥ इति ब्रूयाद् ग्रसितं वा एतत् सोमस्य यद् आपन्नं ग्रसितम् एते सोमस्य निष्खिदन्ति ये सोमं विचिन्वन्ति तस्मात् सोमविक्रयिणो बहु क्रीणन्तो बहु विन्दमानाः क्षोधुका ग्रसितं ह्य् एते सोमस्य निष्खिदन्त्य् आस्माको ऽसीत्य् अभित्सार एवास्यैष शुक्रस् ते ग्रहा इति शुक्रम् एवास्य गृह्णात्य् अभि त्यं देवं सवितारम् इति सवितृप्रसूत एव गृह्णात्य् अतिछन्दसा गृह्णाति सर्वाणि वै छन्दांस्य् अतिछन्दाः सर्वैर् एवैनं छन्दोभिर् गृह्णाति वर्ष्म वा एषा छन्दसां वर्ष्मैनं समानानां गमयति पञ्चभिर् गृह्णाति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धैकैकाम् उत्सर्जं मिमीते ऽयातयाम्न्यायातयाम्न्यैव मिमीत एतावती वा आसाम् एकैकस्या वीर्यम् आप्यते तस्माद् इमाः कामं प्रसारयति कामं प्रत्यञ्चति दश कृत्वो मिमीते दशाक्षरा विराड् विराजम् एवाप्नोत्य् अथो वैराजाः पशवः पशून् एवावरुन्द्धे द्विर् गृह्णाति द्वे हि सवने यावान् वै सोमो गृहीतः स यजमानस्य यम् अभ्यूहति स सदस्यानां प्रजाभ्यस् त्वेत्य् अभ्य्·हति गोत्राद्गोत्राद् धि प्रसर्पन्त्य् ओषधयो वै सोमो ऽपरिमितं जीवनं यत् परिमितं गृह्णीयात् परिमितं जीवनं स्याद् अथ यद् अभ्यूहत्य् अपरिमितस्यावरुद्ध्यै यजमानो वै प्रजापतिः प्रजा अंशवो यत् सोमम् उपनह्यति प्रजानां वा एतत् प्राणम् उपनह्यति यद् आह प्रजास् त्वानुप्राणन्त्व् इति प्राणम् आसु दाधार क्षौमम् उपनह्यत्य् औषधं वै क्षौमम् ओषधयः सोमस्य योनिः स्व एवैनं योनौ दधाति यज्ञो यद् अग्रे देवानाम् अगछत् तं रक्षांस्य् अजिघांसन् स देवता व्यवासर्पत् सर्वदेवत्यं वै वासो यत् क्षौमम् उपनह्यति सर्वाभिर् वा एतद् देवताभिर् यज्ञाद् रक्षांस्य् अपहन्त्य् अथो सर्वाभिर् एव देवताभिर् यज्ञं समर्धयति ॥म्स्_३,७।४॥
आपन्नं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
निष्खिदन्ति : फ़्न् एमेन्देद्। एद्।: निष्खिदन्ति