०३

इयं वै कद्रूर् वाक् सुपर्णी छन्दांसि सौपर्णानि गायत्री त्रिष्टुब् जगती सा वै कद्रूः सुपर्णीम् आत्मानम् अजयत् साब्रवीत् सोमम् आहर तेनात्मानं निष्क्रीणीस्वेति सा छन्दांसि प्रैष्यद् अमुतः सोमम् आहरत तेन मा निष्क्रीणीतेति ततो जगत्य् उदपतत् सा पशुभिश् चागछद् दीक्षया च तस्मात् पशवा इति जगतीम् आहुस् तस्माद् यदा पशून् विन्दते ऽथ दीक्षते ततस् त्रिष्टुब् उदपतत् सा दक्षिणया चागछत् तपसा च तस्मात् त्रिष्टुभो लोके दक्षिणा दीयन्ते तस्माद् उ मध्यन्दिने तपस् तपनीयम् इति ततो गायत्र्य् उदपतत् सा सोमम् आहरत् तम् आह्रियमाणं सामिगन्धर्वो विश्वावसुर् आमुष्णात् स तिस्रो रात्रीर् उपहृतो ऽवसत् तस्मात् तिस्रो रात्रीः क्रीतो वसति ते ऽब्रुवन् पुनर् याचामहा इति ते देवा अब्रुवन् स्त्रीकामा वै गन्धर्वा वाचम् एव सम्भृत्य यथा योषिद् अनपक्षेयतमेव तया निष्क्रीणामेति तं वै निरक्रीणंस् तस्माद् आहुर् वाग् वै सोमक्रयणी वाचं वा एतद् गवा निष्क्रीणातीति ते ऽब्रुवन्न् अन्व् ऋतीयामहा इति ताम् अन्व् आर्तीयन्त तद् अनृतस्य जन्म तद् य एवं विद्वान्त् सत्यानृतां वाचं वदति न हैनं द्रुणाति ते ऽब्रुवन् विह्वयामहा इति तां व्यह्वयन्त गाथां देवा अगायन् ब्रह्म गन्धर्वा अवदन् सा देवान् उपावर्तत तस्माद् विवाहे गाथा गीयते तस्माद् गायन्त् स्त्रियाः प्रियस् तद् य एवं विद्वान् गाथां गायन् हस्तं गृह्णाति सं हि जीर्यतः सर्वम् आयुर् इतो नार्तिं नीतस् तद् आहुर् आ वै सा पुनर् अगछन् नैव किं चन सोमक्रयणीति ॥म्स्_३,७।३॥
अजयत् : फ़्न् चोर्रिगेन्द। एद्।: अयजत्।

या द्विरूपा सा वार्त्रघ्नी यत् तया क्रीणीयाज् जायुकम् अस्य राष्ट्रं स्याद् अथ यस्य तादृश्य् अनुस्तरणी भवति ताजग् एषाम् अपरः प्रमीयते या रोहिणी कृष्णाक्षी कृष्णवाला कृष्णशफा सा पितृदेवत्या यत् तया क्रीणीयात् प्रमायुको यजमानः स्याद् अथ यस्य तादृश्य् अनुस्तरणी भवत्य् ऋतुमद् एषाम् अपरः प्रमीयते यारुणा बभ्रुलोम्नी श्वेतोपकाशा शुच्यदक्षी तत् सोमक्रयण्या रूपं स्वेनैव रूपेण क्रीयते काणा स्याद् अखर्वा श्रोणा सप्तशफा तथा सर्वया क्रीयत एकहायन्याक्रय्या वाग् वै सोमक्रयणी तस्मात् प्रजाः संवत्सरे वाचं वदन्त्य् अप्सु क्रय्य ओषधयो वै सोम आपा ओषधीनां रसस् तथा स रसः क्रियते क्रये वा अहं सोमस्य तृतीयं सवनम् अवरुन्धे वेदेति ह स्माहारुण औपवेशिः पशवो वै तृतीयं सवनं पशूनां चर्म यच् चर्मणि निवपति तेनैव तृतीयं सवनम् अवरुन्द्धे रोहिते निवपति तस्मात् पशूनां रोहितरूपम् आनडुहे निवपत्य् अनड्वान् वै सर्वाणि वयांसि पशूनां सर्वान्य् एव वयांसि पशूनाम् आप्त्वावरुन्द्धे ऽथो बह्व् एव यज्ञस्यावरुन्द्धे सोमं विचिन्वन्ति पापवसीयस्य व्यावृत्त्यय् अथो देवेभ्य एवैनं शुन्धन्ति नाध्वर्युः सोमं विचिनुयान् न यजमानो न यजमानस्य पुरुषा नोपद्रष्टारो विचीयमानस्य स्युर् यद् उपद्रष्टारो विचीयमानस्य स्युः क्षुधं प्रजा नीयुर् अवर्तिर् यजमानं गृह्णीयात् क्षोधुको ऽध्वर्युः स्यात् ॥
विचिन्वन्ति : फ़्न् एमेन्देद्। एद्।: विचिन्वन्ति