०२

जुषाणेनान्य आज्यभागा इज्यन्ते ऽथात्र ऋचोभयतो यजति द्रढिम्ने ऽशिथिरत्वाय सप्तदश सामिधेनीः कार्याः पञ्च ऋतवो द्वादश मासा एष संवत्सरः संवत्सराद् एवाधि यज्ञमुखं प्रतनुते तद् आहुः पञ्चदश सामिधेनीः कार्या न सप्तदश संवत्सरीयस्यैवायनस्य सप्तदश कार्याः संवत्सरस्या ऋद्ध्या इति तन् न सूर्क्ष्यं सपतदशैव कार्याः प्रयाजवत् स्यात् प्रायणीयम् अननुयाजम् अनुयाजवत् स्याद् उदयनीयम् अप्रयाजम् उभयतो वा एतत् प्रयाजानुयाजा यज्ञम् अभिसन्धीयते समानो ह्य् एष यज्ञो निष्काषं च मेक्षणं च निदधाति तेन यज्ञः सन्तत आत्मा वै प्रयाजाः प्रयाजानुयाजा देवक्षेत्रं यज्ञो देवक्षेत्रम् आक्रममाणः प्रजाम् अन्तरियाद् यद् अनुयाजान् अन्तरियात् प्रयाजवत् स्यात् प्रायणीयम् अनुयाजवद् अनुयाजवत् स्याद् उदयनीयं प्रयाजवत् पयसि प्रायणीयः स्यात् पयस्य् उदयणीयो ऽपां वा एतञ् शुक्रियम् अपाम् एव शुक्रियम् अवरुन्द्धे पशवो वै शुक्रियं पशून् एवावरुन्द्धे ऽथो प्रायणे च वावास्मा एतद् उदयने च पशून् दधात्य् आदित्यः प्रायणीयः स्याद् आदित्य उदयनीय इयं वा अदितिर् अस्यां वा एतद् यज्ञमुखेन प्रतितिष्ठत्य् अस्याम् उपरिष्टाद् यत्र वै यज्ञस्यार्धे ऽग्रे समृद्धं क्रियते क्रियमाणङ्क्रियमानं ह वा अस्य समृध्यते संस्थाप्यं प्रायणीयं यज्ञस्य समृद्ध्यै याः प्रायणीये ऽनुवाक्यास् ता उदयनीये याज्याः स्युर् या उदयनीये ऽनुवाक्यास् ताः प्रायणीये याज्याः स्युः पथः प्रतिप्रज्ञात्यय् अथो अनुसन्तत्यै यद् अतो ऽन्यथा कुर्युश् छम्बट्कुर्युः ॥म्स्_३,७।२॥