०१

अकॢप्तं वा इदम् आसीद् दिशो वा इमा न प्राजानंस् तद् देवा अन्यो ऽन्यस्मिन्न् ऐछंस् तन् नाविन्दंस् ते देवा अदितिम् अब्रुवंस् त्वया मुखेनेमा दिशः प्रजानामेति साब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् साब्रवीन् मद्देवत्यम् एव प्रायणीयम् असन् मद्देवत्यम् उदयनीयं माम् एवानुप्रायाथ माम् अनूदयाथेति स एष आदित्यश् चरुर् अदितिं वा एतद् अनुप्रयन्त्य् अदितिम् अनूद्यन्ति ततो वा इमा दिशः प्राजानन् पथ्यां यजति इमाम् एव तेन दिशः प्राजानन् यद् अग्निम् इमां तेन यत् सोमम् इमां तेन यत् सवितारम् इमां तेन यद् अदितिम् इयं वा अदितिर् ऊर्ध्वा वा अस्या दिग् ऊर्ध्वाम् एव तेन दिशं प्राजानंस् ततो वा अकल्पताकॢप्तस्य वै कॢप्त्यै प्रायणीयस् तद् य एवं विद्वान् प्रायणीयेन चरति कल्पते कल्पन्ते हास्मा ऋतवस् ततो वा इमा दिशो ऽन्वपश्यन् यत् पथ्यां यजतीमाम् एव तेन दिशम् अन्वपश्यन् यद् अग्नीषोमौ चक्षुषी वा अग्नीषोमव् अनु ताभ्यां समपश्यन् यत् सवितारं सवितृप्रसूता एवेमा दिशो ऽन्वपश्यन् यद् अदितिम् इयं वा अदितिर् अस्यां वै प्रतिष्ठाय देवा यज्ञम् अतन्वत यत् प्रथ्यां यजति वाग् वै पथ्या वाचम् एवावरुन्द्धे यद् अग्निं देवतास् तेन यत् सोमं यज्ञं तेन यत् सवितारं प्रसूत्यै यद् अदितिम् आदित्या वा इमाः प्रजास् ता एवावारुद्ध ता आद्या अकृत यद् वै यज्ञस्यान्तर्यन्ति तच् छिद्रं तेन यज्ञः स्रवति तेन यजमानो ऽग्नये समवद्यत्य् अग्निर् वै समिष्टिर् अग्निः प्रतिष्ठितिः समिष्ट्या एव प्रतिष्ठित्या अग्निं प्रथमं यजत्य् अग्निम् उत्तमं समानी वा एषा देवता पाङ्क्तत्वाय पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध स्वस्तिं यजति यज्ञस्य स्वस्त्यै पथ्यां यजति वाग् वै पथ्या वाचम् एवानुप्रयन्ति ताम् उत्तमाम् उदयनीये यजति वाग् वै पथ्या वाचम् एवानूद्यन्ति मरुत्वतीः पथ्याया ऋचो भवन्ति देवविशा वै मरुतो देवविशाम् एवाचीकॢपत् तां शान्तां कॢप्तां मनुष्यविशा अनुकल्पन्ते स्तेनभविष्णुर् हविर् भवति ॥म्स्_३,७।१॥
प्राजानन् : फ़्न् चोर्रिगेन्द। एद्।: इमानप्रजानन्।
साब्रवीत् : फ़्न् चोर्रिगेन्द। एद्।: सो ऽब्रवीत्
एवावारुद्ध : फ़्न् एमेन्देद्। एद्।: एवावरुद्ध। च्फ़्। १।५।१०:७९।३, १।५।११:७९।१०