१०

अमुं वा आदित्यं सर्वा वाचो गछन्ति ता उद्यति सर्वाः सृज्यन्ते यद् आह याः पशूनाम् ऋषभे वाचा इति सृज्यमानां वा एतद् वाचं पुनर् आलभते वायवे त्वेति नष्टाम् अनुदिशति वरुणाय त्वेत्य् अप्सु मग्नां रुद्राय त्वेति महादेवाहतां निरृत्यै त्वेत्य् अवसन्नाम् इन्द्राय त्वेति व्लेष्कहतां या वा संशीयेत मरुद्भ्यस् त्वेति ह्रादुनिहताम् एते वै देवा भृत्या स्कन्नभागास् तान् एव प्रीणाति देवेभ्यो वा अन्या दक्षिणा दीयन्ते मनुष्येभ्यो ऽन्या एता वै देवेभ्यः प्रत्यक्षं दक्षिणा दीयन्त एताभिर् वै भूयो ऽवरुन्द्धे यद् उ चेतराभिर् देवाश् च वा असुराश् चास्पर्धन्तैतावान् वै तर्हि यज्ञ आसीद् अग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि ते देवा यज्ञम् अपश्यंस् तेनादीक्षन्त तेषां यद् अग्निहोत्रम् आसीत् तद् व्रतम् उपायंस् तस्माद् विव्रतेन भवितव्यं द्विर् ह्य् अग्निहोत्रं हूयते यद् अग्नीषोमीयं पूर्णमासे हविर् आसीत् तम् अग्नीषोमीयं पूर्वेद्युः पशुम् आलभन्त यद् ऐन्द्राग्नम् अमावास्यायां तम् आग्नेयं श्वो भूते पशुम् आलभन्त वैश्वदेवं प्रातःसवनम् अकुर्वत वरुणप्रघासान् माध्यन्दिनं सवनं साकमेधान् पितृयज्ञं त्र्यम्बकास् तत् तृतीयसवनं तस्मात् तृतीयसवने विश्वं रूपं शस्यते विश्वं ह्य् एतद् रूपं तम् एषां यज्ञम् असुरा णान्ववायंस् तेन वा एनान् अपानुदन्त ततो देवा अभवन् परासुरास् तद् य एवं वेद भवत्य् आत्मना परास्य भ्रातृव्यो भवति ते ऽध्वृतो ऽयम् अभूद् इत्य् अपाक्रामंस् तद् अध्वरस्याध्वरत्वं तस्माद् एकव्रतेन भवितव्यं सकृद् ध्य् अग्निहोत्रं हूयते ॥
संशीयेत : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

इति तृतीयकाण्ड आग्नावैष्णवं नाम षष्ठः प्रपाठकः ॥म्स्_३,६।१०॥