दीक्षितो ऽयम् असा आमुष्यायणः ॥ इत्य् उद्वदति वा आह प्रियो वै देवानां दीक्षितो देवेभ्य एवैनं प्राह त्रिर् आह त्रिषत्या हि देवा अथो त्रयो वा इमे लोका एभ्य एवैनं लोकेभ्या आवेदयति तस्माद् दीक्षितं दूराञ् शृण्वन्त्य् एभ्यो ह्य् एनं लोकेभ्या आवेदयति नक्षत्रं दृष्ट्वा वाचं विसृजते द्वौ वा ऋतू अहश् च रात्रिश् चान्यम् एव ऋतुं सम्प्राप्य वाचं विसृजते व्रतं चरतेति वाचं विसृजते व्रतं ह्य् एतस्य व्रतेन यज्ञः सन्ततो व्रतेनैव यज्ञं सन्तनोति दैवीं धियं मनामहा इति यजुषा हस्ता अवनेनिक्ते यजुषा हि मनुष्या अवनेनिजते व्यावृत्त्यै ब्रह्मणः सदेवत्वायाथो आपो मे दीक्षां नेत् प्रमुष्णान् इत्य् अन्नं वै मनुष्येभ्या उदबीभत्सत तद् एवा मनुष्येष्व् अदिधीर्षंस् तद् आपो ऽब्रुवन् वयं व एतां शुन्धामाथोपावर्तस्वेति ततो ऽन्नं मनुष्यान् उपावर्तन्त त इदम् अन्नं मनुष्येषु धृतं तस्माद् ब्राह्मण आहार्या आहृते हस्ता अवनेनिजीतान्नाद्यस्यावरुद्ध्यय् अथो अन्नाय वा एतद् आत्मानं पावयते ये देवा मनुजाता मनोयुजा इति व्रतं व्रतयत्य् एते वै देवा मनुजाता मनोयुजो यद् इमे प्राणा एषा वा अस्मिन्न् एतर्हि देवता तां प्रीणाति तस्यां हुतं व्रतयति यद् एतो ऽन्यथा व्रतयेत् प्राणैर् एनं व्यर्धयेत् प्रमायुकः स्यात् त्वम् अग्ने व्रतपा असीति वदेत् स्वप्स्यन्त् सुप्त्वा वा प्रबुध्य यदि वा दीक्षितवादं वदेद् अग्निर् वै देवानां व्रतपतिस् तस्माद् एवाधि व्रतम् आलभते नोत्तानः शयीत यद् उत्तानः शयीतेमे लोका ययेयुर् नाग्नेर् अधि पराङ् पर्यावर्तेत यत् पर्यावर्तेत यज्ञात् पर्यावर्तेत नान्यत्रदीक्षितं दीक्षितविमितान्त् सूर्यो ऽभिनिम्रोचेन् नाभ्युदियाद् दीक्षितव्रतम् एव तद् यज्ञो वै देवानां न समभवत् तं भृत्या समभावयन् यद् भृतिं वनुते यज्ञस्य सम्भूत्यै रास्वेयत् सोमेति यद् ब्रूयाद् एतावद् अस्य स्यान् न भूयो यद् आहा भूयो भरेत्य् अपरिमितस्यावरुद्ध्यै देवः सविता वसोर् वसुदावेति सवितृप्रसूत एवैताभिर् देवताभिर् उप प्रतिगृह्णात्य् आत्मनो ऽहिंसायै वायुर् गोपास् त्वष्टाधिपतिः पूषा प्रतिग्रहीतेति वायुम् एवासां गोप्तारम् अकस् त्वष्टारम् अधिपतिं पूषणं प्रतिग्रहीतारम् आपो वै यज्ञो यद् अपो दीक्षितो ऽवगाहेत यज्ञम् अवकृश्नीयाद् यद् आह देवीर् आपो अपां नपाद् इति यद् एवासां यज्ञियं मेध्यं तन् नाक्रामति यद् अपो दीक्षितो ऽवगाहेत विह्रदिनीः स्युस् तस्मान् नावगाहेत यद्य् अवगाहेत लोष्टं विमृणंस् तरेत् तम् एव सेतुम् अनुसन्तरति न वै दीक्षितं तरन्तं देवता अनुतरन्त्य् अरणिभ्यां सह तरति सहैव देवताभिस् तरति न वै दीक्षितं तरन्तं यज्ञो ऽनुतरति रथाङ्गेन सह तरति सहैव यज्ञेन तरति ॥म्स्_३,६।९॥