स्वाहा यज्ञं मनसा ॥ इति मनसा यज्ञम् अभिगछन्ति तत एव यज्ञम् आलब्ध स्वाहा दिवः स्वाहा पृथिव्याः इति द्यावापृथिवी वा अन्व् अन्तरिक्षं यज्ञ उपश्रितस् तत एव यज्ञम् आलब्ध स्वाहोरोर् अन्तरिक्षाद् इत्य् अन्तरिक्षं वै यज्ञो यदि वातो यदि वा पशवस् तत एव यज्ञम् आलब्ध स्वाहा वातात् परिगृह्णामि स्वाहेत्य् अयं वाव यः पवत एष यज्ञस् तम् एवालब्ध वाचं यछति यज्ञं वा एतद् यछति यद् वाचं विसृजेद् यज्ञं विसृजेत् तद् आहुः पुनर् दीक्षयित्वा वाग् यन्तव्येति यत् पुनर् दीक्षयेद् आहुतीर् अतिरेचयेद् वैष्णवीम् अनूच्य वाग् यन्तव्या विष्णुर् वै यज्ञो यज्ञम् एवालब्धाग्नावैष्णवीम् अनूच्य वाग् यन्तव्याग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्ध सारस्वतीम् अनूच्य वाग् यन्तव्या वाग् वै सरस्वती वाचा यज्ञः सन्ततो वाचैव यज्ञं सन्तनोति बार्हस्पत्याम् अनूच्य वाग् यन्तव्या ब्रह्म वै बृहस्पतिर् ब्रह्मणा यज्ञः संहितो ब्रह्मणैव यज्ञं सन्दधाति ॥म्स्_३,६।८॥
इति : फ़्न् थिस् सन्धि चोमेस् फ़्रोम् मनसस् अन्द् इति। च्फ़्। १।२।२:११।१३