०७

यज्ञस्य वै सृष्टस्योल्बम् अन्वलम्बत तद् वासः क्षौमम् अभवत् तस्मात् क्षौमेण दीक्षयन्ति यज्ञस्य सयोनित्वाय प्राचीनमात्रा पत्नी दीक्षयन्तीन्द्रस्य वै प्राचीनमात्रेन्द्रियं स्त्रियाः प्रजा यत् प्राचीनमात्रा पत्नी दीक्षयन्तीन्द्रियम् अस्यां दधाति योनिर् वै दीक्षितस्य दीक्षितविमितं जरायु कृष्णाजिनम् उल्बं दीक्षितवासो नाभिर् मेखला गर्भो दीक्षितः स्वं वा एतद् योनिं दीक्षित आशये तस्माद् दीक्षितेन दीक्षितविमितान् नानृतुभिः क्रम्यम् एष ह्य् एतस्य योनिर् अतो ह्य् एषो ऽधि प्रजायते गर्भो दीक्षितो यद् ऋत आविःकुर्वीत दत्वन्तो गर्भा जायेरन् यद् अनृतु स्मयेत तेजो ऽस्य परापातुकं स्यात् तस्मान् नानृतु स्मेतव्यं तेजसो ऽपरापातायाजातो वै पुरुषः स वै यज्ञेनैव जायते स वै तर्ह्य् एव जायते यर्ह्य् अदः सोमे क्रीते प्रोर्णुता इतो ऽग्रे प्रोर्णुते ऽथो ह्य् अग्रे पुरुषो जायते स वै तर्ह्य् एव सर्वो जायते यर्ह्य् अदो ऽपो ऽवभृथम् अभ्यवैति तर्हि स तस्मात् सर्वो निर्मुच्यते त्रिवृता वै स्तोमेन प्रजापतिः प्रजा असृजत यत् त्रिवृन् मेखला भवति प्रजननाय त्रिवृद् वै वज्र उदरं वृत्रः पाप्मा क्षुद् भ्रातृव्यः पुरुषस्य यन् मेखलां पर्यस्यते वज्रम् एव सपत्नाय भ्रातृव्याय प्रहरति यं द्विष्यात् तं तर्हि मनसा ध्यायेद् वज्रम् एवास्मै प्रहरति स्तृणुत एवाङ्गिरसो वै स्वर्यन्तो यत्र मेखलाः सन्न्यास्यंस् ततः शरो ऽजायत तस्माञ् शरमय्य् ऊर्ग् वा ओषधय ऊर्जं वा एतन् मध्यत आत्मनो धत्ते प्रजानां च योक्त्रेण पत्नी सन्नह्यते मेखलया दीक्षितो ऽथो मिथुनत्वायोर्ध्वं वै पुरुषस्य नाभेर् मेध्यम् अवाचीनम् अमेध्यं यन् मेखलां पर्यस्यते मेध्यस्य चामेध्यस्य च विधृत्यै देवताभ्यो वा एष मेधायात्मानम् आलभते यो दीक्षते बध्नीत इव वा एतद् आत्मानं यन् मेखलां पर्यस्यते तस्माद् वा एतस्यान्नम् अन्नाद्यम् आर्त इव ह्य् एष बद्धस् तस्माद् उ बद्धस्यान्नम् अन्नाद्यं यथा वा इह गरगीर् एवं वा एषो ऽमुष्मिंल् लोके यो दीक्षितस्यान्नम् अत्ति यज्ञेन त्व् एवास्य तता उन्मुक्तिर् हविर् वै दीक्षितो यद् अस्य जुहुयात् तम् एव जुहुयात् प्रमायुकः स्यात् सर्वाभ्यो वा एष देवताभ्या आप्यायते यो दीक्षते यद् अस्य जुहुयाद् यज्ञम् अस्य विदुह्याद् उपधीतो ऽस्य यज्ञः स्यात् तं वा एतद् आगते काले सर्वं संस्फीतं यज्ञं देवताभ्यो दुहेत् त्रेधा वा एतस्य पाप्मानं विभजन्ते यो दीक्षते यो ऽस्यान्नम् अत्ति स तृतीयं यो ऽस्याश्लीलं कीर्तयति स तृतीयं या एनं पिपीलिका दशन्ति तास् तृतीयं तस्माद् वा एतस्यान्नम् अन्नाद्यं तस्माद् अस्याश्लीलं न कीर्तयितव्यं तस्माद् दीक्षितवासो ऽभर्तव्यम् अत्र हि ताः पिपीलिका या एनं दशन्ति ॥म्स्_३,६।७॥
आशये : फ़्न् एमेन्देद्। एद्।: आशयेत्

दक्षिणा वै देवेष्व् आसीद् यज्ञो ऽसुरेषु तां दक्षिणां यज्ञो ऽभ्यकामयत ताम् अभिपर्यावर्तत तां समभवत् स इन्द्रो ऽवेद् यो वा अस्माद् योनेः सम्भविष्यति स इदं भविष्यतीति ताम् इन्द्रः प्राविशत् तता इन्द्रः समभवत् तता इन्द्रो ऽजायत स जायमानो ऽवेद् यो वा अस्माद् योनेर् अन्यो मत् सम्भविष्यति मादृक् सम्भविष्यतीति तया सहोपवेष्टयन्न् अजायत यन् न्यवेष्टयत् तस्मान् निवेष्टिता यन् निवेष्ट्यमाना श्यावाभवत् तस्मात् कृष्णेन्द्रं च वा एष प्रेप्सति दक्षिणां चेन्द्रस्य च खलु वा एतद् योनिम् आलब्ध दक्षिणायाश् चात्मानम् अथो सयोनिम् एव यज्ञम् आलभते कृषिं सुसस्याम् उत्कृषा इति विषाणया भूम्याम् उपहन्ति कृषिम् एवास्य सस्येन समर्धयति यजुषा कण्डूयते यजुषा हि मनुष्याः कण्डूयन्ते व्यावृत्त्यै यजुषा कण्डूयते तस्माद् प्रजा अपामम्भविष्णवः पामम्भविष्णवः प्रजाः स्युर् यद् अयजुषा कण्डूयेत सुपिप्पला ओषधीस् कृधीति शिरः कण्डूयत ओषधीर् एव फलं ग्राहयति तस्माद् ओषधयः शीर्षन् फलं गृह्णन्ति वाग् वै सृष्टा चतुर्धा व्यभवत् ततो या अत्यरिच्यत सा वनस्पतीन् प्राविशत् सैषा याक्षे या दुन्दुभौ या तूणवे या वीणायां दण्डं प्रयछति ताम् एवास्मै वाचं प्रयछत्य् अथो वज्रम् एवास्मै प्रयछति गोपीथायास्यदघ्नं प्रयछत्य् एतावती हीयं वाग् वदत्य् अथो एतावती हि वाचा वीर्यं क्रियते यद् वर्षीयांसं प्रयछेत् स्वां वाचं मैत्रावरुणो विभजेत् तं श्वःसुत्यायां मैत्रावरुणाय प्रयछति तां श्वो भूते मैत्रावरुण ऋत्विग्भ्यो विभजति ॥

होतर् यज पोतर् यज नेष्टर् यज ॥ इति सा सह वषट्कारेणाहवनीयं गछति तां पुरो ऽध्वर्युर् विभजति ॥

होतर् यज पोतर् यज नेष्टर् यज ॥ इत्य् अध्वर्युः पुरो वाचं विभजति मैत्रावरुणः पश्चात् ॥