यज्ञो वै प्रजापतिः प्राजापत्यम् एतच् छन्दो यद् अनुष्टुभ् यद् अनुष्टुभा जुहोति स्वेनैवैनं छन्दसावरुन्द्ध एकया जुहोत्य् एको हि प्रजापतिर् अनिरुक्तया जुहोत्य् अनिरुक्तो हि प्रजापतिः पूर्णया जुहोति पूर्णो हि प्रजापतिर् यद् ऊनया जुहुयाद् भ्रातृव्याय लोकम् उञ्शिंषेद् अथ यत् पूर्णया जुहोति न भ्रातृव्याय लोकम् उञ्शिंषत्य् ऊर्जो वा एतद् रूपं यत् पूर्णं यत् पूर्णया जुहोति यज्ञे वा एतद् ऊर्जं दधाति विश्वो देवस्य नेतुर् इति सावित्रं मर्तो वुरीत सख्यम् इति पितृदेवत्यं विश्वो राय इषुध्यतीति वैश्वदेवं द्युम्नं वृणीतेति बार्हस्पत्यं पुष्यसा इति पौष्णं सारस्वतः स्वाहाकारः सर्वदेवत्या वा एषा ऋक् तस्माद् एषैका सत्यौद्ग्रभणं परिबभूव सर्वाभ्यो देवताभ्यो यज्ञ आलभ्या इत्य् आहुः सर्वदेवत्या वा एषा ऋग् यद् एतया ऋचौद्ग्रभणं जुहोति सर्वाभ्यो वा एतद् देवताभ्यो यज्ञम् आलभते ऽनुष्टुभो वा एतस्याः सत्यास् त्रीण्य् अष्टाक्षराणि पदान्य् एकं सप्ताक्षरं यत् सप्ताक्षरं तस्य चत्वार्य् अक्षराण्य् एकस्मिन् पद उपयन्ति त्रीण्य् एकस्मिन् यत्र चत्वार्य् उपयन्ति सा जगती यत्र त्रीणि सा त्रिष्टुब् यद् अष्टाक्षरं तेन गायत्री यद् अनुष्टुप् तेनानुष्टुप् सर्वैर् एवास्य छन्दोभिर् हुतं भवति छन्दःप्रतिष्ठानो वै यज्ञश् छन्दःसु वावास्यैतद् यज्ञं प्रतिष्ठापयाम् अकः स्वाहाकारेण खलु वा एषा पङ्क्तिः पाङ्क्तो यज्ञः पङ्क्तिप्रायणः पङ्क्त्युदयनः पङ्क्तिप्रायणम् एवास्य यज्ञं पङ्क्त्युदयनम् अकर् अथो वाग् वै छन्दांसि वाचं वा एतन् मध्यत आप्त्वावरुन्द्धे तस्माद् इयं वाङ् मध्यतो वदति मध्यतो हीयं वाक् प्रजापतिर् वै स्वां दुहितरम् अध्यैद् उषसं तस्य रेतः परापतत् ते देवा अभिसमगछन्त तस्माद् दीक्षितो न ददाति न पचत्य् अथैनम् अभिसङ्गछन्ते तद् उदगृभ्णंस् तद् औद्ग्रभणस्यौद्ग्रभणत्वं तेन यज्ञम् अतन्वन्त यज्ञो यद् अग्रे व्यभवत् स त्रेधा व्यभवत् स वा ऋक्ष्व् एव तृतीयेनाश्रयत सामसु तृतीयेन यजुःषु तृतीयेन या वा अस्य प्रिया तनूर् आसीत् तया यजुर् अश्रयतोच्चैर् ऋचा क्रियत उच्चैः साम्नोपांशु यजुषा यज्ञस्य ह्य् अत्र प्रिया तनूर् यद् यजुषोच्चैः कुर्याद् यज्ञस्य प्रियां तन्वम् उद्धृतां कुर्याद् अब्रह्मवर्चसी स्यान् नग्नम्भावुकः ॥म्स्_३,६।५॥
आहिताग्निर् वा एष सन् नाग्निहोत्रं जुहोति न दर्शपूर्णमासौ यजते तद् या आहुतिभाजो देवतास् ता अनुध्यायिनीः करोति कर्शयत आत्मानं तेनैवास्य तद् धुतं भवति देवा असुरान् हत्वैभ्यो लोकेभ्यः प्राणुदन्त तेषाम् असवो मनुष्यान् प्राविशंस् तद् इदं रिप्रं पुरुषे ऽन्तर् अथो कृष्णम् इव चक्षुष्य् अन्तस् तन् नाश्नीयाद् असुर्यम् एवापहते यदा वै पुरुषे न किञ्चनान्तर् भवति यदास्य कृष्णं चक्षुषोर् नश्यत्य् अथ मेध्यो यदि कुर्यान् नक्तं कुर्याद् असुर्यो वै रात्रिर् असूर्यम् एवासूर्यं क्रियते वाचं वा एतद् दीक्षयन्तीति ह स्माहारुण औपवेशिर् य उताञ्जानो ऽभ्यञ्जानो ऽथ दीक्षितवादं वदति स वाव दीक्षित इति सायं प्रातर् वै मनुष्याणां देवहितम् अशनम् अतिनीय सायमशनम् अतिनीय प्रातरशनं व्रतं व्रतयति मानुषस्य व्यावृत्त्यय् अदन्तीति वै गा आहुर् अश्नन्तीति मनुष्यान् जुहुधीति देवेभ्यो ऽथवा एतम् आहुः ॥
नाग्निहोत्रं : फ़्न् एमेन्देद्। मित्त्wएदे। एद्।: नाग्निहोत्रं
प्रातर् : फ़्न् एमेन्देद्। एद्।: प्रातर्।