आकूत्यै प्रयुजे अग्नये स्वाहेत्य् आकूत्या वा आकूतिर् यक्ष्यते स्य इति प्रयुजः खलु वा एनं यज्ञाय प्रयुञ्जते मेधायै मनसे अग्नये स्वाहेति मेधया हि मनसा यज्ञम् अश्नुते दीक्षायै तपसे अग्नये स्वाहेति दीक्षया हि तपसा यज्ञम् अश्नुते सरस्वत्यै पूष्णे अग्नये स्वाहेति वाग् वै सरस्वती वाचा व्याहरति यक्ष्यते स्य इति पूषा खलु वा एनं यज्ञं प्रापिपद् य एनम् अपूपुषद् आपो देवीर् बृहतीर् विश्वशम्भुवा इत्य् आपो हि यज्ञो द्यावापृथिवी उरो अन्तरिक्षेति द्यावापृथिवी वा अन्व् अन्तरिक्षं यज्ञ उपश्रितस् तत एव यज्ञम् आलब्ध बृहस्पतिर् नो हविषा वृधातु स्वाहेति ब्रह्म वै बृहस्पतिर् ब्रह्मणा वा एतत् पुरस्तात् सर्वान् कामान् आप्त्वा दीक्षाम् आलभते यत्र वा अस्य यज्ञः श्रितो यत्रयत्रोपश्रितस् ततस्ततो वा एतत् सर्वं ब्रह्मणा यज्ञं सम्भृत्यालब्ध न वा एकाहुतिर् दीक्षितं करोति यद् एतानि जुहोति द्वितीयत्वाय प्रजापतिर् वै यत् किञ्च मनसादीधेत् तद् आधीतयजुर्भिर् एवाप्नोत् तद् आधीतयजुषाम् आधीतयजुष्ट्वं तद् य एवं विद्वान् आधीतयजूंषि जुहोति यद् एव किञ्च मनसा दीध्यज् जुहोति तद् आप्नोत्य् एते वै यज्ञस्य सम्भारा एष ह त्व् एव सम्भृतसम्भारेण यज्ञेन यजते यस्यैतानि हूयन्त एतद् ध स्म वा आहारुण औपवेशिः किम् उ स यज्ञेन यजेत यो यज्ञस्य सम्भारान् न विद्याद् इति पञ्चभिर् जुहोति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध षड्भिर् जुहोति षड् वा ऋतव ऋतुष्व् एव प्रतितिष्ठति यज्ञो वै सृष्टः प्र सामाव्लिनात् प्र यजुस् तं वा ऋग् एवायछद् एका वा एनम् ऋग् अयछद् द्वादश यजूंषि नव सामानि तस्मान् नवभिर् बहिष्पवमाने स्तुवते नव ह्य् एनं सामान्य् अयछंस् तस्माद् वात्सम्बन्धविदो द्वादशभिर् औद्ग्रभणं जुह्वति द्वादश ह्य् एनं यजूंष्य् आयछन्न् एतर्हि खलु वा एष सृज्यते यर्हि दीक्षते यद् ऋचौद्ग्रभणं जुहोति यज्ञं वा एतत् सृष्टम् ऋचायछति तस्माद् आरुणिविद ऋचौद्ग्रभणं जुह्वत्य् एका ह्य् एनम् ऋग् अयछत् ॥म्स्_३,६।४॥
प्रापिपद् : फ़्न् चोर्रिगेन्द। एद्।: प्रापिबद्।