०३

यज्ञं शकेयम् ॥ इतीन्द्रो वै वृत्रम् अप्स्व् अध्यहंस् तासां यद् यज्ञियं मेध्यम् आसीत् तद् उदक्रामत् ता इमा ओषधयो ऽभवंस् तासां वा एतत् तेजो यद् दर्भा एता वै शुष्का आपो यद् एवासांस् तेजस् तद् अवरुन्द्धे त्रयीर् वा आपो दिव्याः पार्थिवाः समुद्रियास् ताः सर्वा दर्भो विवस्थैत् तस्माद् दर्भः पवित्रं द्वाभ्यां पावयति द्वे पवित्रे द्विपाद् यजामानो यावान् एवास्यात्मा तं पावयति त्रिः पावयति त्रिषत्या हि देवा अथो त्रयो वा इमे प्राणाः प्राणो ऽपानो व्यानो यावान् एवास्यात्मा तं पावयति सप्तभिः पावयति सप्त वै छन्दांसि छन्दोभिर् एवैनं पावयत्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणैवैनं पावयत्य् एकविंशत्या पावयति दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशो यावान् एवास्यात्मा तं पावयति त्रया वै नैरृता अक्षाः स्त्रियः स्वप्नो यद् दीक्षते तेनाक्षैश् च स्त्रीभिश् च व्यावर्तते यां प्रथमां दीक्षितो रात्रीं जागर्ति तया स्वप्नेन व्यावर्तते यां प्रथमां दीक्षितो वसति यज्ञं तयावरुन्द्धे यां सोमे क्रीते प्रजां तया यां श्वःसुत्यया पशूंस् तया ॥म्स्_३,६।३॥