०२

केशश्मश्रु वपते दतो धावते नखान् निकृन्तते स्नाति मृता वा एषा त्वग् अमेध्यं वा अस्यैतद् आत्मनि शमलं तद् एवापहते मेध्य एव मेधम् उपैत्य् अप्सु दीक्षां प्रवेशयित्वा देवाः स्वर्गं लोकम् आयन् यद् अप्सु स्नाति ताम् एव दीक्षाम् आलभते ऽथ यद् अपो ऽवभृथम् अभ्यवैति तां वा एतद् दीक्षां पुनर् अप्सु प्रवेशयत्य् ओषधे त्रायस्वैनम् इत्य् आह त्रात्या एव स्वधिते मैनं हिंसीर् इति वज्रो वै स्वधितिः स ईश्वरो ऽशान्तो यजमानं हिंसितोर् यत् तृणम् अन्तर्दधाति यजमानस्याहिंसायै देवश्रुद् इमान् प्रवपा इति देवश्रुद् ह्य् एतान् प्रवपते स्वस्त्य् उत्तरं अशीयेति स्वस्त्य् अस्य यज्ञस्योदृचम् अशीयेति वा एतद् आहापो मा मातरः सूदयन्त्व् इत्य् आपो हि यज्ञो घृतेन मा घृतप्वः पुनन्त्व् इति देवताभिर् एवात्मानं पावयते विश्वं हि रिप्रं प्रवहन्तु देवीर् इति यद् एवास्य रिप्रम् अमेध्यम् आत्मनि शमलं तद् अस्माद् अधि प्रवहन्त्य् उद् इद् आभ्यः श्रुचिर् आ पूत एमीति श्रुचिर् एवाभ्यो यज्ञियो मेध्यः पूत उदेति हविर् वै दीक्षितो यदा वै हविर् यजुषा प्रोक्षत्य् अथ हविर् भवति यद् यजुषा स्नपयति हविर् एवैनम् अकर् अश्नाति प्राणा वा अशनं प्राणान् एवात्मन् धित्वा दीक्षते सुषिरो वै पुरुषः स वै तर्ह्य् एव सर्वो यर्ह्य् आशितो यद् आशितो भवति मेध्य एव मेधम् उपैति यथा वा इह दीक्षित एवं वा एषो ऽमुष्मिंल् लोक एव वा अत्याशितस्य तिष्ठति तस्मान् नात्याशितेन भवितव्यं तन् न सूर्क्ष्यम् आशितेनैव भवितव्यं यथैव कनीयःकनीयो ऽश्नीयाद् एवम् अश्नीयाद् यद् धि दीक्षितः सन् कनीयो ऽश्नाति तेन दीक्सित आङ्क्ते ऽभ्यङ्क्ते वासः परिधत्त एता वै पुरुषस्य तन्वः सतनूर् एव मेध्यम् उपैति नवनीतेनाभ्यङ्क्ते घृतं देवानाम् आयुतं मनुष्याणां निष्पक्वं गन्धर्वाणां स्वयंविलीनं पित्πणां सर्वदेवत्यं वा एतत् तस्मान् नवनीतेनाभ्यङ्क्ते दर्भपिञ्जुलाभ्यां समायौति तत् स्विद् अभ्यञ्जनम् अकर् अथो अभ्य् एवैतद् घारयति मेधत्वाय महीनां पयो ऽसीत्य् आह महीनां ह्य् एतत् पयो ऽपाम् ओषधीनां रसा इत्य् अपां ह्य् एष ओषधीनां रसो वर्चोधा असि वर्चो मे धेहीत्य् आशिषम् एवाशास्ते ॥म्स्_३,६।२॥
अन्तर्दधाति : फ़्न् एमेन्देद्। एद्।: अन्तर् दधाति
स्विद् : फ़्न् एमेन्देद्। एद्।: स्विद्

प्रस्वाङ्क्ते प्रजात्यईषीकयाङ्क्ते शलस्या हि मनुष्या आञ्जते सतूलयाङ्क्ते ऽपतूलया हि मनुष्या आञ्जते दक्षिणं पूर्वम् आङ्क्ते सव्यं हि पूर्वं मनुष्या आञ्जते त्रिर् अन्यत् त्रिर् अन्यद् आङ्क्ते ऽपरिमितं हि मनुष्या आञ्जते न पुनर् निषेवयति पुनरावर्तं हि मनुष्या आञ्जत इन्द्रो वै वृत्रम् अहंस् तस्य कनीनिका परापतत् सा त्रिककुभम् अगछत् तदाञ्जनं त्रैककुभम् आङ्क्ते सत्यं वै चक्षुर् नेव वाचे श्रद् दधाति सत्यम् एवालभ्य दीक्षाम् उपैत्य् अन्तर् अहं त्वया द्वेषो अन्तरारातीर् दधे महता पर्वतेनेति पर्वतेन वा एतद् द्वेषो ऽरातीर् अन्तर् धत्ते चक्षुःपा असि चक्षुर् मे पाहीत्य् आशिषम् एवाशास्त ऊर्ध्वं चावाञ्चं च पावयत्य् ऊर्ध्वश् च ह्य् अयम् अवाङ् च प्राणो यं द्विष्यात् तम् अक्ष्णया पावयेत् प्राणान् अस्य मोहयति प्रमायुको भवति चित्पतिस् त्वा पुनात्व् इति यज्ञो वै चित्पतिर् वाचस्पतिस् त्वा पुनात्व् इति वाचस्पतिर् एवैनं यज्ञाय पावयति देवस् त्वा सविता पुनात्व् इति सवितृप्रसूत एवैताभिर् देवताभिर् मेधायात्मानं पावयते ऽछिद्रेण पवित्रेणेत्य् एतद् वा अछिद्रं पवित्रं यत् सूर्यस्य रश्मयो ऽछिद्रेणैवैनं पवित्रेण पुनाति तस्य ते पवित्रपते पवित्रेणेति यज्ञो वै पवित्रपतिर् यज्ञाय खलु वा एष कम् आत्मानं पावयते ॥
आङ्क्ते : फ़्न् एमेन्देद्। एद्।: आङ्क्ते।