आग्नावैष्णवम् एकादशकपालं निर्वपेद् अग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्धाग्निर् वै यज्ञस्यान्तो ऽवस्ताद् विष्णुः पुरस्ताद् उभयत एव यज्ञस्यान्ता आलब्ध तद् आहुर् न ऋत इन्द्राद् यज्ञो ऽस्त्व् इति यद् अष्टाकपलस् तेनाग्नेयो यत् त्रिकपालस् तेन वैष्णवो यद् एकादशकपालः सम्पद्यते तेनैन्द्रो ऽग्निर् वै यज्ञस्य पवित्रं विष्णुर् यज्ञः पवित्रपूतम् एव यज्ञम् आलब्ध मेधस्य वा एतद् यज्ञस्य रूपं यत् पुरोडाशस् तस्मात् पुरोडाश एव कार्यश् चरू कुर्वन्ति धेन्वा वै घृतं पयो ऽनडुहस् तण्डुलास् तन् मिथुनं मिथुनम् एवास्य यज्ञमुखे दधाति तेजो वै घृतं तेजस एव प्रजायते पुरुषो वा एष मेधायालभ्यते पुरुषस्येव ह्य् एषा प्रतिमा यत इव हि रूपं तस्माच् चरुर् एव कार्यो वेदिमति दीक्षते विन्दा इति वै वेदिमति दीक्षते विन्दते ह वै यो वेदिमति दीक्षते ऽथो यज्ञपथ एवादीक्षिष्ट वेद्या वै देवा इमम् असुराणाम् अविन्दतेमाम् एव विन्दते यो वेदिमति दीक्षते ऽथो यज्ञपथम् एवालब्ध प्राचीनवंशं कुर्वन्ति दिशो यद् इमां व्यकल्पयन्न् इमाम् एव देवेभ्यो ऽकल्पयन्न् इमां पितृभ्य इमाम् असुरेभ्य इमां मनुष्येभ्यो देवताम् एष उपैति यो दीक्षते देवानाम् एव दिशम् उपावर्तते प्राचीनाम् एव दिशम् उपावर्तते ऽथो देवक्षेत्रम् एव प्रावस्यति परिश्रयन्त्य् अन्तर्हितो वै दैवात् क्षयान् मानुषः क्षयो मानुषाद् एवैनं क्षयाद् अन्तर्दधत्य् अथो रक्षसाम् अनन्ववायायैति वा एषो ऽस्माल् लोकाद् यो दीक्षते जनं ह्य् एति देवलोकम् अभ्यारोहति परिश्रयन्तो ऽतिरोकान् कुर्वन्ति तेनास्माल् लोकान् नैति तेनास्मिंल् लोके धृतः पुरस्तात् प्रायणं कुर्यात् स्वर्गकामस्यासौ वा आदित्यः स्वर्गो लोको ऽमुष्यैनम् आदित्यस्य सामक्षं गमयति दक्षिणतः प्रायणं कुर्याद् यं कामयेत पितृलोक ऋध्नुयाद् इत्य् एषा वै पित्πणां दिक् पितृलोक एव ऋध्नोति पश्चात् प्रायणं कुर्यात् प्रजाकामस्य पश्चाद् वै रेतो धीयते रेतो दीक्षितो रेतो ऽस्मिन् दधात्य् उत्तरतः प्रायणं कुर्याद् यं कामयेत मनुष्यलोक ऋध्नुयाद् इत्य् एषा वै मनुष्याणां दिङ् मनुष्यलोक एव ऋध्नोत्य् उत्तरतः पुरस्तात् प्रायणं कुर्याद् यं कामयेतोभयोर् लोकयोर् ऋध्नुयाद् इत्य् उभयोर् वा एतल् लोकयोर् उभयोर् एव लोकयोर् ऋध्नोति सर्वतः प्रायणं कुर्याद् यं कामयेत सर्वासु दिक्ष्व् इत्य् ऋध्नुयाद् इति सर्वासु दिक्ष्व् इत्य् ऋध्नोति ॥म्स्_३,६।१॥
दीक्षते : फ़्न् चोर्रिगेन्द। एद्।: दीक्षते।
दीक्षते : फ़्न् चोर्रिगेन्द। एद्।: दीक्षते।