वि वा एष यज्ञश् छिद्यते यद् असंस्थितं पशुम् उत्सृजन्ति सं ह स्म वा एतम् आशोकेयः स्थापयत्य् आज्येन संस्थाप्यं यज्ञस्य सन्तत्या अविछेदाय ॥म्स्_३,५।४॥
स्वर्गं वा एष लोकम् अन्वारोहति यो ऽग्निं चिनुते यद् अन्वारोहान् जुहोति स्वर्गम् एवैनं लोकं गमयित्वाथ कामं चरति ॥