०२

अथैताः पञ्चापञ्चीनाः शिथिर इव वा अग्निश् चित्यो यत् पञ्चापञ्चीना उपदधात्य् अग्नेर् धृत्या अशिथिरत्वाय पञ्चोपदधाति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध भूयस्कृद् असि वरिवस्कृद् असीत्य् अग्ना एव भूमानं दधाति भूयान् प्रजया पशुभिर् भवत्य् अप्सुषद् असि गृध्रसद् असीति वयो वा अग्निः समिक्ष्यम् एवैनं वयः करोति वयो भूत्वा स्वर्गं लोकम् एति यस्यैता उपधीयन्ते ॥म्स्_३,५।२॥