०१

आ वा एष प्रजापतये वृश्चते यः शिर उपदधाति नेतराण्य् अङ्गान्य् अस्थिचिद् अस्य श्मशानचिद् भवति यद् एतां पुरुषचितिम् उपदधाति न प्रजापतया आवृश्चते ऽनस्थिचिद् अस्याश्मशानचिद् भवति षट्त्रिंशतम् एता उपदधाति षट्त्रिंशदक्षरा बृहती बार्हताः पशवो बार्हतः पुरुषः पुरुषस्य प्रतिमोपधीयते स ह्य् एष धीयत एष ह त्व् एव यजमानो ऽमुं लोकं नाति प्रमीयते यस्यैता उपधीयन्ते ॥म्स्_३,५।१॥