देवेभ्यो वा अग्निं चिक्यानेभ्यो न व्यौछत् ते ऽग्ना आहुतिम् अजुहवुस् तुभ्यम् अग्रे व्युछ तथास्मभ्यं विवत्स्यतीति तयाग्नये व्यौछद् व्य् अग्नया औछन् नाहुत्यै व्यौछत् तस्या आहुत्यै यज्ञेन व्यौछद् व्य् आहुत्या औछन् न यज्ञाय व्यौछत् तस्मै यज्ञाय दक्षिणया व्यौछद् वि यज्ञायौछन् न दक्षिणायै व्यौछत् तस्यै दक्षिणायै ब्राह्मणेन व्यौछद् वि दक्षिणाया औछन् न ब्राह्मणाय व्यौछत् तस्मै ब्राह्मणाय ब्रह्मणा व्यौछद् वि ब्राह्मणायौछन् न ब्रह्मणे व्यौछत् तस्मै ब्रह्मणे तपसा व्यौछद् एता वै तपःपरार्धा व्युष्टयः श्वोवसीयस्य् अस्मै व्युछति य एवं विद्वान् व्युष्टीर् उपधत्ते यो वै यथापूर्वं व्युष्टीर् वेद यथापूर्वम् अस्मै व्युछत्य् औषसी वाव प्रथमा व्युष्टिर् व्यवाड् इति वा आहुर् यद् औषस्य् उदेति यद् व्युछति यद् अग्निर् आधीयते यत् सूर्य उदेति यद् धस्ता अवनेनिक्ते यद् अश्नाति यत् पिबत्य् एता वै यथापूर्वं व्युष्टयो यथापूर्वम् अस्मै व्युछति य एवं विद्वान् व्युष्टीर् उपधत्ते ॥म्स्_३,४।९॥
यो वा अग्निम् अयोनिम् अनायतनं चिनुते ऽयोनिर् अनायतनो भवत्य् आपो वा अग्नेर् योनिर् यत् कुम्भेष्टका उपदधाति योनिमन्तम् एवायतनवन्तम् अग्निं चिनुते योनिमान् आयतनवान् भवत्य् अधरसपत्नो ऽग्निश् चेतव्या इत्य् आहुर् आपो वा अग्नेः सपत्नो यत् कुम्भेष्टका उपदधात्य् अधरसपत्नम् एवाग्निं चिनुते ऽधरो ऽस्मात् पाप्मा भवत्य् अधरः सपत्नः शुग् वा अग्निर् आपः शान्तिर् यत् कुम्भेष्टका उपदधाति शान्त्यै यत् कुम्भाश् च कुम्भ्यश् च तन् मिथुनं यद् द्वन्द्वं प्रजात्यै द्वादशोपदधाति द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे नैवारश् चरुस् त्रयोदशो भवत्य् अस्ति मासस् त्रयोदशस् तम् एवैतेनाप्त्वावरुन्द्धे पयसि भवति यत् पयो ग्राम्यं तेनान्नाद्यम् अवरुन्द्धे यन् नीवारा आरण्यं तेन तेनैव तद् उभयम् अवरुन्द्धे ॥