०८

इति यज् जुहोति शान्तिर् वा एषाग्नेर् गुप्तिर् आत्मनो वयो वा अग्निस् तस्माद् अग्निचिता पक्षिणो नाशितव्यं नो अग्निविदा यद् अश्नीयात् तम् एवाश्नीयात् स एनम् आर्तिं निनयेत् प्रजापतिर् वा एतम् अग्रे ऽग्निम् अचिनुत ज्यैष्ठ्यकामः स ज्यैष्ठ्यं महिमानम् अगछद् ज्यैष्ठ्यं महिमानं गछति य एवं विद्वान् अग्निं चिनुते प्रजापतिः प्रजाः सृष्ट्वा ता अनुप्राविशत् सो ऽब्रवीद् यो मेतः सञ्चिनवदर्ध्नुवत् स इति तं देवाः समचिन्वंस् त आर्ध्नुवंस् तच् चित्यस्य चित्यत्वं तद् य एवं विद्वान् अग्निं चिनोति प्रजापतिम् एव सञ्चिनोत्य् ऋध्नोति तस्माद् आहुः प्रजापतिचित एवाग्निर् इति ॥म्स्_३,४।८॥