०७

श्येनचितिं चिन्वीत स्वर्गकामः श्येनो वै भूत्वा गायत्र्य् अमुं लोकम् अपतत् स्वर्गस्य लोकस्य समष्ट्यै रथचक्रचितिं चिन्वीत भ्रातृव्यवान् रथचक्रं वै वज्रं कृत्वा देवा असुरेभ्य उपप्रावर्तयंस् तेषां शततर्हम् अतृंहंस् तद् एताम् एव वज्रं कृत्वा यजमानो भ्रातृव्यायोपप्रवर्तयति शततर्हं ह दृंहति प्रौगचितिं चिन्वीत भ्रातृव्यवान् उभयतो वै देवान् असुराः परीयत्ता आसन् पुरस्ताद् अन्ये पश्चाद् अन्ये तान् वा एतेन व्यनुदन्त तद् भ्रातृव्यस्य वा एष विनोदो द्रोणचितिं चिन्वीतान्नकामो द्रोणेन वा अन्नम् अद्यते ऽनुरूपेणैवान्नाद्यम् अवरुन्द्धे पश्चाच्चरुर् भवत्य् अनुरूपत्वाय श्मशानचितिं चिन्वीत यः कामयेताञ्जसा पितृलोकम् उपेयाम् इत्य् अञ्जसा पितृलोकम् उपैत्य् उप चान्यं चिन्वीत ग्रामकामो यथैवैतम् उपचिनोत्य् एवम् अस्मै ग्रामम् उपचिनोति समूह्यं चिन्वीत पशुकामो यथैवैतं समूहत्य् एवम् अस्मै दिग्भ्यः पशून्त् समूहति ॥म्स्_३,४।७॥
अतृंहन् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
प्रौगचितिं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

प्रजापतिर् वा एतम् अग्रे ऽग्निम् अचिनुत ऋतुभिः संवत्सरं वसन्तेन पुरस्ताद् अचिनुत ग्रीष्मेण दक्षिणं पक्षं वर्षाभिर् उत्तरं शरदा पुछं हेमन्तेन मध्यं ब्रह्मणैव पुरस्ताद् अचिनुत क्षत्रेण दक्षिणं पक्षं विशोत्तरं पशुभिः पुछम् आशया मध्यम् एतावद् वा अस्ति यावद् एवास्ति तत् स्पृणोति तद् अवरुन्द्धे स्वर्गाय वै लोकायाग्निश् चीयते वज्र एकादशिनी यद् एकादशिनीं मिनुयाद् वज्रः पुरस्ताद् अवगृह्णीयाद् अस्वर्ग्यः स्याद् यन् न मिनुयाद् अपशुः स्याद् एकयूप एकादश पशवो नियुज्यास् तेन पशव्यास् तेन स्वर्गो यत् पक्षसम्मितां मिनुयात् कनीयांसं यज्ञक्रतुम् उपेयात् कनीयसीं प्रजां कनीयसः पशून् कनीयो ऽन्नाद्यं पापीयान्त् स्याद् अथ यद् वेदिसम्मितां मिनोति ज्यायांसं चिनुते ज्यायांसम् एव यज्ञक्रतुम् उपैति भूयसीं प्रजां भूयसः पशून् भूयो ऽन्नाद्यं वसीयान् भवत्य् एषा वा अग्नेर् उत्तरवती नाम चितिर् उत्तरमुत्तरं श्वःश्वः श्रेयान् भवति य एवं वेद द्वेधा वा अग्निं चिक्यानस्य यश इन्द्रियं गछत्य् अग्निं वा गछत्य् आत्मानं वा ॥

रुचं नो धेहि ब्राह्मणेषु रुचं राजसु धारय ।
रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥

इति यज् जुहोत्य् आत्मानं वा एतद् अग्नेर् यशसार्पयतीश्वरो वा एष दुश्चर्मा भवितोर् यो ऽग्निम् अध्येति ॥

तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्य् उरुशंसम् आ ना आयुः प्र मोषीः ॥