समास् त्वाग्ना ऋतवो वर्धयन्त्व् इति समाभिश् चैवैनम् ऋतुभिश् च समिन्द्धे सं दिव्येन दीदिहि रोचनेनेति ज्योतिष्मन्तम् एवैनं चिनुते विश्वा आभाहि प्रदिशश् चतस्रा इति तस्माद् अग्निः सर्वा दिशा आभात्य् अमुत्रभूयाद् अध यद् यमस्य बृहस्पते अभिशस्तेर् अमुञ्चा इत्य् आमयाविनः कुर्यान् मृत्युर् वै यमो ब्रह्म बृहस्पतिर् यावद् एव ब्रह्म तेनैनं भिषज्यति प्रत्यूहताम् अश्विना मृत्युम् अस्माद् इत्य् अश्विनौ वै देवानां भिषजौ ता अस्मान् मृत्युं प्रत्यूहत उद् वयं तमसस् परीति पाप्मानम् एव तमो ऽपहत्य स्वर्गं लोकम् अभ्यारोहत्य् आहृतो वै हैतनामनः सर्वतेर् आपाष्ठेर् अग्नेश् चित्यस्य होतासीत् तम् अब्रुवन् या अप्सुमतीस् ता इछेति तस्मै वा एता गन्धर्वाप्सरसः प्राब्रुवन् यद् अप्सुमतीः सामिधेनीर् भवन्ति शान्त्यै चतुर्विंशतिम् अन्वाह चतुर्विंशत्यक्षरा वै गायत्री गायत्री यज्ञमुखं यज्ञमुखम् एवालब्धाथो चतुर्विंशतिर् वा अर्धमासाः संवत्सर एष वा अस्थिता श्रीर् यत् संवत्सरो न वा एष श्रियेलयति न हास्य श्रीर् इलयति गायत्रीर् अन्वाह तेजो वै गायत्री ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसम् अवरुन्द्धे त्रिष्टुभो ऽन्वाहौजो वै वीर्यं त्रिष्टुभ् ओज एव वीर्यम् अवरुन्द्धे यद् गायत्र्यश् च त्रिष्टुभश् च भवन्ति तेनैव तद् उभयम् अवरुन्द्धे या आग्नेयीर् अनिरुक्तास् ताः कार्या अनिरुक्तम् इव ह्य् एतद् अव्यावृत्तं व्यावृतं पाप्मना भ्रातृव्येण गछति ता अग्नीषोमीयस्य पशोः कुर्यात् को हि देवक्षेत्रं द्विर् अभ्यारोक्ष्यतीति तिस्रो रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुस् त्रिपदा विराड् विराजम् एवाप्नोति षड् रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुः षड् वा ऋतवः संवत्सरः संवत्सरम् अनु विराड् आयत्ता विराजम् एवाप्नोति दश रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुर् दशाक्षरा विराड् विराजम् एवाप्नोति द्वादश रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुर् द्वादश मासाः संवत्सरः संवत्सरम् अनु विराड् आयत्ता विराजम् एवाप्नोति चतुर्विंशतिं रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुश् चतुर्विंशतिर् वा अर्धमासाः संवत्सरः संवत्सरम् अनु विराड् आयत्ता विराजम् एवाप्नोति मासं भृत्वाग्निश् चेतव्या इत्य् आहुर् मासश एव संवत्सरम् आप्नोत्य् अष्टौ वा एतन् मासो वसवो ऽबिभ्रुस् त इमं लोकम् आजयन् गायत्रीं छन्द एकादश रुद्रास् ते ऽन्तरिक्षं लोकम् आजयंस् त्रिष्टुभं छन्दो द्वादशादित्यास् ते ऽमुं लोकम् आजयन् जगतीं छन्दस् त आर्ध्नुवन्न् ऋध्नोति य एवं विद्वान्त् संवत्सरम् अग्निं बिभर्ति तस्माद् आहुः संवत्सरभृत एवाग्निर् इत्य् अथैता आप्रियः प्रजापतिः प्रजाः सृष्ट्वा रिरिचानो ऽमन्यत स एता आप्रीर् अपश्यत् ताभिर् आत्मानम् आप्रीणीताग्निर् वै प्रजापतिर् यद् एता आप्रियो भवन्त्य् अग्निम् एवैताभिर् यजमाना आप्रीणीते लोमशं वा एतच् छन्दः पशव्यम् ऊनातिरिक्तं प्रजननाय विराजो भवन्ति विराड् वै सर्वाणि छन्दांसि सर्वाण्य् एवास्य छन्दांस्य् उपहितानि भवन्ति ता विश्वचितः कुर्यात् प्राणा वा एता ज्यायसीर् इव च कनीयसीर् इव च भवन्ति ज्यायाम्स इव च हीमे कनीयाम्स इव च प्राणाः प्राणान् एवात्मन् धत्ते ॥म्स्_३,४।६॥
वा : फ़्न् एमेन्देद्। एद्।: आ।
यस्याग्निर् उख्यो ऽनुगछति यथा पुत्रो जातः प्रमीयत एवं तद् यद्य् अनुगछेत् ताम् एवोखां पुनः परीन्धीतैषा वा अग्नेर् योनिः स्वाद् एवैनां योनेः प्रजनयतीश्वरो वा एषो प्रजनितोर् यो ऽग्निं चिनुते ॥
यास् ते अग्न आर्द्रा योनयो याः कुलायिनीर् ये ते अग्ना इन्दवो या उ नाभयः ।
ताभिष् ट्वम् उभयीभिः संविदानः प्रजानंस् तन्वेह निषीद ॥
इति यद् एषार्द्रा योनिमति शान्त्यै प्रजा वै कुलायं पशवः कुलायं यत् कुलायिनीः प्रजात्यै हविर्भूतो वा एष यो ऽग्निं चिनुते यो ऽग्निं चित्वान् यस्य स्त्रियम् उपैति यथा हविः स्कन्नम् एवं स्याद् यथा हविषे स्कन्नाय प्रायश्चित्तिम् इछन्त्य् एवम् अस्मै प्रायश्चित्तिम् इछेयुर् यद्य् उपेयान् मैत्रावरुण्यामिक्षया यजेत मैत्रावरुणताम् एवोपैत्य् आत्मनो ऽस्कन्नत्वाय पशुर् वा अग्निर् यो वै पशुं पुरस्ताद् उपचरति हिनस्ति वा एनं स तस्मात् पुरस्तात् प्रत्यञ्चं नाक्रामति तस्माद् उ पश्चात् प्राञ्चम् उपचरत्य् आत्मनो ऽहिंसायै यो वै यथावृत्तम् अग्निं चिनुते यथारूपं प्रजाश् च ऋतवश् च कल्पन्ते या दक्षिणावृतस् ता दक्षिणत उपदधाति याः सव्यावृतस् ता उत्तरतस् त्र्यालिखिताः पश्चात् प्राचीर् उपदधाति यथावृत्तं वा एतद् अग्निं चिनुते यथारूपं प्रजाश् च ऋतवश् च कल्पन्ते ससत्यो ऽग्निश् चेतव्या इत्य् आहुः ॥
भूर् भुवः स्वः ॥ इति पुरस्तात् स्वयमातृण्णा यावद् एतद् वै वाचः सत्यं ससत्यम् एवाग्निं चिनुते प्राणो वै स्वयमातृण्णामृतं हिरण्यं यद् धिरण्येष्टकाम् उपधाय स्वयमातृण्णाम् उपदधात्य् अमृत एवास्य प्राणान् दधाति तेजो ऽसि तेजो मे यछेति हिरण्येष्टका उपदधात्य् एताभिर् वा इमे लोका विधृता अथो एताभिर् एवाग्निं चिनुत इमे लोकाः प्रभान्ति देवा असुरान् हत्वा मृत्योर् अबिभयुस् ते छन्दांस्य् अपश्यंस् तानि प्राविशंस् तेभ्यो यद्यद् अछदयत् तेनात्मानम् अछादयन्त तच् छन्दसां छन्दस्त्वं चितिञ्चितिम् उपधायाग्नेय्या धाम छन्दो ऽभिमृशति स्वाम् एव देवताम् उपप्रविशत्य् आत्मनो ऽहिंसायै ॥