०५

यो वा अग्निं योगा आगते न युङ्क्ते न युञ्जानेषु युङ्क्ते ऽग्ने युक्ष्वा हि ये तवेत्य् अग्निं वा एतद् योगा आगते युङ्क्ते युङ्क्ते युञ्जानेषु यो वा अग्निं विमोक आगते न विमुञ्चते न विमुञ्चमानेषु विमुञ्चते वि ते मुञ्चामि रशनां वि रश्मीन् इत्य् अग्निं वा एतद् विमोक आगते विमुञ्चते वि मुञ्चमानेषु मुञ्चते यथा वै पुनराधेयम् एवं पुनश्चितिर् यो वा आधेयेन ऋध्नोति पुनः स आधत्ते यो ऽग्निं चिक्यानो मन्येत वि स्या ऋध्यता इति स एतां पुनश्चितिम् उपदहीतापि प्रथमं चिन्वानश् चिन्वीता ऋद्ध्यय् ऋध्नोत्य् एवाथो मिथुनत्वाय यां वा अग्निचिद् अनिष्टका आहुतिं जुहोति स्रवति सा तां स्रवन्तीं यज्ञो ऽनुस्रवति यज्ञं यजमानो यद् एतां पुनश्चितिम् उपदधात्य् आहुतीनां प्रतिष्ठित्यै ताः प्रतितिष्ठन्तीर् यज्ञो ऽनु प्रतितिष्ठति यज्ञं यजमानो ऽष्टोपदधात्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तं चिनुते ऽष्टौ लोकम्पृणा उपधाय पुरीषेणाभ्य्·हत्य् अष्टाक्षरा गायत्री ब्रह्म गायत्री गायत्र्यैवैनं छन्दसा ब्रह्मणा चिनुत एकादश लोकम्पृणा उपधाय पुरीषेणाभ्य्·हत्य् एकादशाक्षरा त्रिष्टुब्वीर्यं त्रिष्टुभैवैनं छन्दसा वीर्येण चिनुते द्वादश लोकम्पृणा उपधाय पुरीषेणाभ्य्·हति द्वादशाक्षरा जगती जागताः पशवो जगत्यैवैनं छन्दसा पशुभिश् चिनुत एषा वा अग्नेर् उत्तरवेदिर् एतद् अग्निर् उत्तरवेदिमांश् चीयते यो ऽस्याग्निः पुरा चितः स्यात् तम् अन्ववसाय यजेत यथा वा इदं दीप्यमाने भूयो ऽभ्यादधात्य् एवं वावास्मिन्न् एतद् अभिपूर्वं भूयस् तेजो दधाति तद् आहुः कः श्रेयांसं विषुप्तं बोधयिष्यतीति यद् यजता आहुत्यैवैनं व्यर्धयति गृहान् वा एष कुरुते यो ऽग्निं चिनुते यद् वा अन्यतो विन्दते गृहांस् तद् आहरति य इष्ट्या वा पशुना वा सोमेन वा यजेत यो ऽस्याग्निः पुरा चितः स्यात् तम् अन्ववसाय यजेत यथा वा इदम् अन्यतो वित्त्वा गृहान् आहरत्य् एवं तत् तद् आहुः पुनर् वा स्रुवा एतद् यज्ञे क्रियते यत्रैव क्व च यजेत तद् एता एकविंशतिम् उपधाय यजेत प्रतिष्ठित्यै प्रतिष्ठा ह्य् एकविम्श इति ॥म्स्_३,४।५॥
चिन्वीता : फ़्न् ⟨ चिन्वीत