०३

अग्निश् च घर्मश् चेत्य् एतद् वा अग्नेर् ब्रह्मवर्चस्यं रुचं चैवैतेन ब्रह्मवर्चसं चावरुन्द्धे तेजस्वी ब्रह्मवर्चसी भवत्य् ऋतुश् च व्रतं चेत्य् अहोरात्रे वा ऋतुश् च व्रतं चाहोरात्रे एवास्यैतेनाभीष्टे प्रीते भवत एका च तिस्रश् चेति देवछन्दसं वा एका च तिस्रश् च देवछन्दसम् एवावरुन्द्धे चतस्रश् चाष्टौ चेति मनुष्यछन्दसं वै चतस्रश् चाष्टौ च मनुष्यछन्दसम् एवावरुन्द्धे देवलोक एव देवछन्दसेन ऋध्नोति मनुष्यलोके मनुष्यछन्दसेनैका च तिस्रश् च चतस्रश् चाष्टौ चेति रोहो वा एष एषां लोकानां सङ्क्रान्तिः स्वर्गस्य लोकस्य द्व्युत्तरेण वै स्तोमेनादित्याः स्वर्गं लोकम् आयंश् चतुरुत्तरेणाङ्गिरसौ यद् एतौ स्तोमौ जुहोति स्वर्गस्य लोकस्य समष्ट्यै युग्मदयुजौ वा एतौ सोमौ मिथुनौ प्रजननाय रेत एव द्व्युत्तरेण दधाति रेतो हितं चतुरुत्तरेण प्रजनयत्य् एका च तिस्रश् चेत्य् आ त्रयस्त्रिंशतस् त्रयस्त्रिंशद् देवतास् ता एवास्यैतेनाभीष्टाः पीता भवन्ति चतस्रश् चाष्टौ चेत्य् अष्टाचत्वारिंशतो ऽष्टाचत्वारिंशदक्षरा जगती जागताः पशवः पशून् एवावरुन्द्धे त्र्यविश् च त्र्यवी चेत्य् एतानि वै वयांसि पशूनां पशव एव पशून् अवरुन्द्ध आयुर् यज्ञेन कल्पते प्राणो यज्ञेन कल्पता इति यज्ञस्य वा एषा कॢप्तिर् यज्ञम् एवैतद् अचीकॢपद् वाजाय स्वाहा प्रसवाय स्वाहेति त्रयोदश वा एता आहुतयस् त्रयोदश मासाः संवत्सरः संवत्सरं वावास्मा एतद् उपदधाति स्वर्गे लोके तस्मिन्न् एव प्रतितिष्ठति स्तोमश् च यजुश् चेत्य् अन्नं वै स्तोमश् च यजुश् चान्नं वा एतद् आत्मन् धित्वान्नादो भूत्वा देवक्षेत्रम् अन्ततः प्रावसत्य् अग्निर् वै वसुस् तस्य वा एषा धारा सर्वान् ह वा अस्मा अग्निर् दोहान्त् सर्वान् कामान् दुहे य एवं वेद सं वा एतद् अग्निर् अन्नाद्यम् इन्द्धे यच् चिनोति तं दीपयत्य् एव वसोर् धारया ॥म्स्_३,४।२॥म्स्_३,४।३॥
अचीकॢपत् : फ़्न् एमेन्देद्। एद्।: अचीकॢपत्