वसोर् धारां जुहोत्य् अकॢप्तस्य कॢप्त्या अशान्तस्य शान्त्या अनभिजितस्याभिजित्या अनवरुद्धस्यावरुद्ध्यै सन्ततं जुहोति प्राणानां सन्तत्या एषां लोकानां सन्तत्या अन्नाद्यस्य सन्तत्यय् अविछिन्नं जुहोत्य् अन्नाद्यस्याविछेदाय यद् विछिन्द्यात् प्राणान् विछिन्द्याद् यं द्विष्यात् तस्य विछिन्द्याद् अन्नाद्यम् अस्य विछिनत्त्य् अक्षुच् चान्नं चेत्य् एतानि वा अन्नस्य रूपाणि रूपैर् एवान्नम् अवरुन्द्धे ऽग्निश् चापश् चेत्य् एषा वा अन्नस्य योनिः सयोन्य् एवान्नम् अवरुन्द्धे वसोर् मे धारासद् इति वसोर्धारां जुहोति घृतस्य वा एषा धारा यजमानम् अमुष्मिंल् लोक उपतिष्ठन्ते द्वादश द्वादशाति जुहोति द्वादश मासाः संवत्सरः संवत्सरम् एवावरुन्द्धे ऽर्धेन्द्राणि जुहोत्य् अर्धेन्द्रैर् वै देवा इन्द्रियं वीर्यम् असुराणाम् अवृञ्जतेन्द्रियम् एवैतैर् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते देवाश् च वा असुराश् चास्पर्धन्त ते देवा इन्द्रम् अब्रुवंस् त्वया मुखेनेमान् जयामेति सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीद् अर्ध्यो वा अहं देवतानाम् असानीति ततो वा अजयंस् तस्माद् एषो ऽर्धभाग् देवतानां यद् अर्धेन्द्राणि हूयन्ते विजित्यईन्द्रोत्तमानि भवन्तीन्द्रियं वै वीर्यम् इन्द्र इन्द्रिये वा एतद् वीर्ये ततो यज्ञस्य यजमानः प्रतितिष्ठत्य् अंशुश् च रश्मिश् चेति यज्ञमुखं वा अंशुश् च रश्मिश् च यज्ञमुखम् एवावरुन्द्धे ऽधिपतिश् चादाभ्यश् चेति नैनं भ्रातृव्यो दभ्नोत्य् अग्निं चिक्यानं प्र समानानां ज्यैष्ठ्यम् आप्नोति य एवं वेदैते ग्रहा भवन्त्य् एतानि वै यज्ञस्य रूपाणि रूपैर् एव यज्ञम् अवरुन्द्धे स्रुचश् च चमसाश् चेति यज्ञायुधानि सम्भरति यज्ञायुधान्य् एव सम्भृत्य यज्ञं प्रयुङ्क्ते पात्राणि जुहोति पात्रैर् वा अन्नम् अद्यते ऽनुरूपेणैवान्नाद्यम् अवरुन्द्धे बर्हिश् च वेदिश् चेत्य् आशीर् एवैषावभृथश् च स्वगाकारश् चेति प्रतिष्ठित्यै ॥म्स्_३,४।१॥