क्रमध्वम् अग्निना नाकम् इत्य् आह स्वर्गस्य लोकस्य समष्ट्यै दिवः पृष्ठं स्वर् गत्वेति पृष्ठेन हि यन्त्य् ऊर्जं नो धेहि द्विपदे चतुष्पदा इति द्विपात्सु चैव चतुष्पात्सु च पशुषूर्जं दधातीयक्षमाणा भृगुभिः सहेति भृगवो ह्य् अग्रे यज्ञेनार्ध्नुवन्न् ऋद्ध्यै पृथिव्या अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् इत्य् एषां वा एष लोकानां समारोहः पञ्चभिर् आक्रमते पाङ्क्तो यज्ञो यज्ञेन वा एतद् यज्ञम् अभ्यारोहत्य् अप्रतिनोदाय कृष्णायाः श्वेतवत्सायाः पयसा जुहोत्य् अहर् वै वत्सो रात्रिर् माताह्ने वा एतद् रात्रीं प्रदापयति प्रत्ते ह वा अहोरात्रे दुहे य एवं वेद सर्वे वै पशवो नानारूपाः सन्तः पय एव प्रत्य् एकरूपा यद् एव प्रत्येकरूपास् तद् एनान् प्रत्य् अवरुन्द्धे नक्तोषासाग्ने सहस्राक्ष सुपर्णो ऽसि गरुत्मान् पृष्ठे पृथिव्याः सीदेत्य् एष वा एतल् लोकेषु ज्योतिष्मन्तम् अग्निं निधत्ते ऽथो प्राणानां विधृत्यै द्वाभ्यां सादयति द्विपाद् यजमानः प्रतिष्ठित्यय् आजुह्वानः सुप्रतीकः पुरस्ताद् इत्य् आह स्वर्गस्य लोकस्य समष्ट्यै तां सवितुर् वरेण्यस्य चित्राम् इत्य् एतं वै कण्वः श्रावयसो ऽग्नेर् दोहं विदाञ्चकाराग्नेर् वा एष दोहो ऽग्निं वा एतेनाग्निचिद् दुहे सर्वान् ह वा अस्मा अग्निर् दोहान्त् सर्वान् कामान् दुहे य एवं वेद विधेम ते परमे जन्मन्न् अग्ना इत्य् आह ऋद्ध्या एव प्रेद्धो अग्ने दीदिहि पुरो ना इत्य् एषा वै कर्णकवती सूर्म्य् अजस्रं ज्योतिर् अजस्रं वावास्मा एतज् ज्योतिर् अप्यधाद् एतां वै वासिष्ठः सात्यहव्यः सत्त्रिणा आसीनान् पप्रछ विद कर्णकवतीं सूर्मीम् इति विद्मेति होचुर् या वनेषु तां विद्मेति पशवो वा एतस्याः कर्णाः पशुमान् भवत्य् एतां वै वज्रं शतघ्नीं विघ्नीं देवा असुरेभ्य उपप्रावर्तयंस् तेषां शततर्हम् अतृंहंस् तद् एताम् एव वज्रं शतघ्नीं विघ्नीं यजमानो भ्रातृव्यायोपप्रावर्तयति शततर्हं ह तृंहत्य् अग्ने तम् अद्येति पङ्क्त्या जुहोति यजमानो वै पङ्क्तिर् यजमानं वा एतद् विराजि प्रतिष्ठापयाम् अकर् अथो पङ्क्त्यैवाहुत्या यज्ञम् आलभते सप्त ते अग्ने समिधः सप्त जिह्वा इत्य् एतावतीर् वा अग्नेस् तन्वः षोढा सप्तसप्त यो वा अस्यैता अग्निं चिक्यानो वितर्षयति वि ह तृष्यति ता एवास्य तर्पयति चितिं जुहोमि मनसेत्य् एषा वा अग्नेर् अदाभ्याहुतिर् वैश्वकर्मणी नैनं भ्रातृव्यो दभ्नोत्य् अग्निं चिक्यानं प्र समानाना ज्यैष्ठ्यम् आप्नोति य एवं वेदाग्निर् वा अमन्यत न वा अहम् इदम् अभागधेयस् तेजो यंस्यामीति तद् एतेन भागधेयेनायछद् एतद् वा अग्निर् अग्निहोत्रम् अग्निं वा एतेनाग्निचिद् यछति सर्वान् ह वा अस्मा अग्निर् दोहान्त् सर्वान् कामान् दुहे य एवं वेद सं वा एतद् अग्निम् इन्द्धे यच् चिनोति तं दीपयत्य् एवाग्निर् अग्निहोत्रेण ॥म्स्_३,३।९॥
एकरूपा : फ़्न् ⟨ एकरूपास्
एकरूपा : फ़्न् चोर्रिगेन्द। एद्।: एकरूपा।
एतल् : फ़्न् एमेन्देद्। एद्।: एतं
होचुर् : फ़्न् चोर्रिगेन्द। एद्।: होतुर्।
अतृंहन् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
तृंहति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अथैषो ऽग्नये वैश्वानराय द्वादशकपालः संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एव प्रीणात्य् अथो प्राहृतायैवास्मै भागम् अकर् आहुतीनां वै प्रतिष्ठित्या यजमानः प्रतितिष्ठत्य् आहुतीनाम् अप्रतिष्ठित्या न प्रतितिष्ठति यद् एतं जुहोत्य् आहुतीनां प्रतिष्ठित्यै ताः प्रतितिष्ठन्तीर् यज्ञो ऽनुप्रतितिष्ठति यज्ञं यजमानो ऽथो कामो वै वैश्वानरो यत्कामो भवति सं हास्मै स कामो नमति यत् प्राङ् पर्यावर्तेत दैवीर् विशो मुह्येयुर् यद् दक्षिणा यमदेवत्या स्याद् यत् प्रत्यङ् सौर्यो यद् उदङ् रौद्र ऋजु होतव्यः प्रतिष्ठित्यै सर्वहुतं करोति प्रतिष्ठित्यै क्षत्रं वै वैश्वानरो विण् मारुता यद् एतं हुत्वा मारुतान् जुहोति विशं वा एतत् क्षत्राय नियुनक्त्य् अथो विशम् एव क्षत्रायानुकां करोत्य् अग्निमुखान् वै प्रजापतिः पशून् असृजत पशवो मारुता यद् एतं हुत्वा मारुतान् जुहोत्य् अग्निमुखान् एवास्मै प्रजापतिः पशून् प्रजनयति सप्तकपाला भवन्ति सप्तसप्त मारुता गणास् तस्मात् सप्तकपाला गणेनगणेन जुहोति गणश एव मरुतः प्रीणाति यो ऽरण्ये ऽनुवाक्यो गणस् तन् मध्यतो जुहुयात् क्षत्रं वा एष मरुतां विड् इतरे विशो वा एतत् क्षत्रं मध्यमेष्ठं करोति यदि कामयेत विशा क्षत्रं हन्याम् इति यो ऽरण्ये ऽनुवाक्यो गणस् तम् इतरैर् गणैर् मोहयेद् विशा वा एतत् क्षत्रं हन्ति यदि कामयेत क्षत्रेण विशं हन्याम् इति यो ऽरण्ये ऽनुवाक्यो गणस् तेनेतरान् गणान् मोहयेत् क्षत्रेण वा एतद् विशं हन्ति तस्य त्रिष्टुभौ याज्यानुवाक्ये स्याताम् ओजो वै वीर्यं त्रिष्टुब् ओजो वा एतद् वीर्यं विश आदाय क्षत्रायापिदधाति यदि कामयेत क्षत्रेणास्य क्षत्रं हन्यां प्र स्वाद् आयतनाच् च्यवेतेति यो ऽरण्ये ऽनुवाक्यो गणस् तेनाग्निष्ठं रथवाहनं व्यङ्गयेत् क्षत्रं वा एष मरुताम् अग्निष्ठं रथवाहनं क्षत्रियस्य क्षत्रं बिभर्ति क्षत्रेणैवास्य क्षत्रं हन्ति प्र स्वाद् आयतनाच् च्यवत इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्माना इत्य् एतद् वै देवानाम् अनुवर्त्म दैवीं च वावास्मा एतद् विशं मानुषीं चानुवर्त्मानौ करोति सं वा एतद् अग्निम् इन्द्धे यच् चिनोति तं दीपयत्य् एव मारुतैः ॥