०८

उद् एनम् उत्तरं नयेति समिधा आदधाति प्रह्रियमाणायैवास्मै भागम् अकस् तिस्र आदधाति त्रिवृद् ध्य् अग्निर् उद् उ त्वा विश्वे देवा इति विश्वे हीदं देवाः स्मो यन् मनुष्या अग्ने भरन्तु चित्तिभिर् इति यस्मा एव चित्तायाग्निर् आधीयते तेनैनं चित्तेन समर्धयति पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् इतीमा एवैनं पञ्च दिशो ऽनु तेजस्विनं करोत्य् उक्थपत्रा ईड्यो गृभीत इत्य् उत्थपत्रो ह्य् एष परिगृह्य यज्ञम् आयन्न् इति परिगृह्य ह्य् एतं यन्ति हरिकेशः सूर्यरश्मिः पुरस्ताद् इत्य् असौ वा आदित्यो हरिकेशः सूर्यरश्मिः पुरस्तात् सविता ज्योतिर् उदयं अजस्रम् इत्य् आह प्रसूत्या एव तस्य पूषा प्रसवे याति विद्वान् इति पशवो वै पूषा पशून् एवावरुन्द्धे ततो वाका आशिषो नो जुषन्ताम् इत्य् आशिषां वा एष दोह आशिष एव दुह इन्द्रं विश्वा अवीवृधन्न् इति वृधद्वत्या यन्ति वृद्धिम् एवोपयन्त्य् अनुष्टुभा यन्ति वाग् वा अनुष्टुब् वैश्वदेवी वाग् वैश्वदेवो ऽग्निस् तस्माद् अनुष्टुभा यन्ति षड्भिर् आग्नीध्राद् यन्ति षड् वा ऋतव ऋतुभिर् एव यन्ति विमान एष दिवो मध्य आस्ता इत्य् अश्मानं सादयति विमानो ह्य् असा आदित्यः स्वर्गस्य लोकस्य सुम्नहूर् यज्ञ आ च वक्षद् यक्षद् अग्निर् देवो देवं आ च वक्षद् इत्य् आशीर् एवैष देवहूर् यज्ञ आ च वक्षद् यक्षद् अग्निर् देवो देवं आ च वक्षद् इत्य् आशिष एवैष परिग्रहो वाजस्य मा प्रसवेनोद्ग्राभेणोदजिग्रभद् इत्य् असौ वा आदित्य उद्ग्राभ एष निग्राभ उद्यन् वा एतद् यजमानम् उद्गृह्णाति निम्रोचन्न् अस्य भ्रातृव्यं निगृह्णात्य् उद्ग्राभश् च निग्राभश् चेति ब्रह्म वा उद्ग्राभो ब्रह्म निग्राभो ब्रह्मणा वा एतद् यजमानम् उद्गृह्णाति ब्रह्मणास्य भ्रातृव्यं निगृह्णात्य् अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् इत्य् ओजो वै वीर्यम् इन्द्राग्नी ओजसा वा एतद् वीर्येण यजमानो भ्रातृव्यं विष्वञ्चं विनुदते चतुर्भिर् आहवनीयाद् यन्ति चत्वारि वै छन्दांसि छन्दोभिर् एव यन्त्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणैव यन्ति ॥म्स्_३,३।८॥
स्मो : फ़्न् चोर्रिगेन्द। एद्।: स्मो।
भरन्तु : फ़्न् एमेन्देद्। एद्।: भरन्त। ह्, ब्ब्: भरन्त। ब्: भरन्तु। च्फ़्। २।७।१०:८७।९
उक्थपत्रा : फ़्न् एमेन्देद्। एद्।: उत्थपत्रा। २।१०।५:१३६।१७: उक्थपत्रा