०७

इन्द्रो वै वृत्रम् अहन् स प्राङ् अपद्यत स पद्यमाना इन्द्रं षोडशभिर् भोगैः पर्यगृह्णात् स वा अग्निनैव वृत्रस्य भोगान् अपिदह्य वैश्वकर्मणाभ्यां पाप्मनस् तमसो निरमुच्यताग्निस् तिग्मेन शोचिषेति यज् जुहोत्य् अग्निना वा एतत् पाप्मनो भोगान् अपिदह्य वैश्वकर्मणाभ्यां पाप्मनस् तमसो निर्मुच्यते नाना जुहोति सूक्तयोर् नानावीर्यत्वाय षोडशगृहीतेन जुहोति षोडशभिर् हि स तं भोगैः पर्यगृह्णाद् एतेन वै स वृत्रस्य भोगेभ्यो निरमुच्यत तत् पाप्मन एवैतेन भोगेभ्यो निर्मुच्यते ऽथैतद् अप्रतिरथम् एतेन वै देवा असुरान् प्रत्यजयंस् तद् अप्रतिरथस्याप्रतिरथत्वं तद् अप्रत्य् एवैतेन यजमानो भ्रातृव्यं जयत्य् एतेनैव याजयेत् सङ्ग्रामे जयति सङ्ग्रामम् एतेनैव याजयेद् भ्रातृव्यवन्तं यो वास्य प्रियः स्यात् तं भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् एतेन वै भरद्वाजः प्रतर्दनं दैवोदासिं समनह्यत् स राष्ट्रम् अभवद् यं कामयेत राष्ट्रियम् अयं राष्ट्रं स्याद् इति तम् एतेन सन्नह्येद् राष्ट्रं ह भवत्य् एतेन वै देवा विराजम् अभ्यजयन् दशान्वाह दशाक्षरा विराड् विराजम् एवैतेनाभिजयति दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसंस् तानि वा अप्रतिरथेनैवापाघ्नत यद् ब्रह्माप्रतिरथं दक्षिणतो वदन्न् एति रक्षसाम् अपहत्यै ॥म्स्_३,३।७॥
जयति : फ़्न् एमेन्देद्। एद्।: जयति। च्फ़्। ४।३।४:४३।३