वरुणमेनिर् वा एष एतर्ह्य् आभीद्धस् तिष्ठति स एनं तर्ह्य् अधीयात् तस्य प्राणेन वीयान् मण्डूकेनाध्येति तस्यैव प्राणेन व्येति न ग्राम्यान् पशून् हिनस्ति नारण्यान् अवकया विकर्षत्य् अपां वा एषा योनिर् यद् अवकापां वा एतद् योनिनाग्नेः शुचं शमयत्य् अपां वा एतद् रूपं यद् अवकापां वा एतद् रूपेणाग्नेः शुचं शमयति वेतसेनाध्येत्य् अपां वा एतत् पुष्पं यद् वेतसो ऽपां वा एतत् पुष्पेणाग्नेः शुचं शमयति सप्तभिर् विकर्षति सप्त वै छन्दांसि छन्दोभिर् वा एतद् अग्नेः शुचं शमयत्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणा वा एतद् अग्नेः शुचं शमयत्य् अग्निर् वै सृष्टो भागधेयम् ऐछत् स प्रजापतिम् एवोपाधावत् तस्मा अन्नं प्रायछत् कन्त्वाय तद् अस्मै कम् अभवद् अन्नं वै कम् अन्नेन वा एतद् अग्निम् उपचरति कन्त्वाय कं हास्मा अग्निं चिक्यानाय भवति पराञ्चम् अध्येति पराङ् हि पशुः शान्तो रथे पराङ् हि पशुः रेतो दधात्य् अन्यांस् ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेत्य् अन्नं वै पावकम् अन्नेन वा एतद् अग्नेः शुचम् अन्तर्धत्ते हिरण्यशकलैर् व्याघारयत्य् अमृतं वै हिरण्यं तेजो ऽग्निर् अमृतेन वा एतत् तेजो व्याघारयति पञ्चभिर् व्याघारयति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध द्वया वै देवा यजमानस्य गृहम् आगछन्ति यद् दध्ना मधुसंश्लिष्टेन व्यवोक्षति तान् एव प्रीणाति सर्वम् अनु व्यवोक्षति सर्वान् एवैनान् प्रीणाति तिसृभिर् व्यवोक्षति त्रिवृद् ध्य् अग्निस् त्रिष्टुब्भिर् व्यवोक्षतीन्द्रियस्यावरुद्ध्यय् अन्नवतीभिर् व्यवोक्षत्य् अन्नाद्यस्यावरुद्ध्यै दर्भगुरुमुष्टिना व्यवोक्षति सं हि प्राजापत्यः प्राणैर् वा एष व्यृध्यते ऽग्निम् अध्येति यद् आह प्राणदा अपानदा इति प्राणान् एवात्मन् धत्ते प्रजया च वा एष पशुभिश् च व्यृध्यते यो ऽग्निम् अध्येति प्रजा वै वर्चः पशवो वरिवो यद् आह वर्चोधा वरिवोधा इति प्रजां चैव पशूंश् चात्मन् धित्वावरोहति ॥म्स्_३,३।६॥
शमयति : फ़्न् एमेन्देद्। एद्।: शममति।
रथे : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।