०५

अश्मन्न् ऊर्जं पर्वते शिश्रियाणाम् इत्य् अपः परिषिञ्चन् पर्येति प्रजापतेर् वा एष रसः प्रजापतेर् एव रसेन परिषिञ्चत्य् अश्मंस् ते क्षुद् इत्य् अश्मानम् एव क्षुधार्पयति मयि ता ऊर्ग् इत्य् आत्मन्न् एवोर्जं धत्ते यं द्विष्मस् तं ते शुग् ऋछत्व् इति यम् एव द्वेष्टि तम् अग्नेः शुचार्पयति त्रिः परिषिञ्चन् पर्येति त्रयो वा इमे लोका एभ्यो वा एतल् लोकेभ्यो ऽग्नेः शुचं शमयति त्रिः परिषिञ्चन् पर्येति त्रिर् अपरिषिञ्चंस् तत् षट् षड् वा ऋतव ऋतुभ्यो वा एतद् अग्नेः शुचं शमयति यद्य् अभिचरेद् एतद् एव यजुर् वदन्न् अपरिषिञ्चन् पुनः परीयाद् यैवाग्नेः शुक् तयैनम् अर्पयति यद्य् अभिचरेत् ॥ इदम् अहम् अमुष्यामुष्यायणम् अमुष्मात् पुत्रम् अमुष्यां दिशि प्रक्षिणामि ॥ इति कुम्भं जघन्यायां श्रोण्यां प्रक्षिणीयाद् यत् प्रक्षिणाति तस्यैवार्तिम् अन्व् आर्तिम् आर्छत्य् अथ यन् नाम गृह्णात्य् आयतनम् एवास्य छिनत्त्य् आग्नेयपावमान्यां गायत्रं गायते प्राणो वै पवमानः शिरो गायत्री यद् आग्नेयपावमान्यां गायत्रं गायते शीर्षन् वा एतत् प्राणान् दधातीयं वै रथन्तरम् अन्तरिक्षं वामदेव्यम् असौ बृहत् त्रिधातुर् वा एतद् अर्को निधीयत आत्मा वै वामदेव्यं प्रतिष्ठा यज्ञायज्ञियं बृहद्रथन्तरे पक्षौ यद् बृहद्रथन्तरे अभितो गायत आत्मन्न् एव पक्षौ धत्ते यज्ञं वै देवानां रक्षांस्य् अजिघांसंस् तानि बृहद्रथन्तराभ्याम् एवापाघ्नत यद् बृहद्रथन्तरे अभितो गायते रक्षसाम् अपहत्यै प्रजापतेर् हृदयम् अपिपक्षे गायते तस्माद् इदम् अपिपक्ष आत्मनो हृदयम् अनृचं गायते तस्माद् अनस्थकं हृदयम् अर्क्यैः सामभिर् अर्कं परिष्टुवन्ति सतनूर् अर्को निधीयते ॥म्स्_३,३।५॥
एतल् : फ़्न् एमेन्देद्। एद्।: एतं