तमो वै स्वर्गं लोकम् अन्तरा तिष्ठत्य् एता वै ज्योतिष्मतीर् इष्टका यद् धिरण्यशकलैः प्रोक्षति विवासयति वा एतद् यजमानाय ज्योतिर् अस्मिन् दधाति सहस्रं भवन्ति साहस्रो वै प्रजापतिः प्रजापतिम् एवाप्नोति यावद् वै सहस्रं तावद् इतो ऽसौ लोकः स्वर्गस्य लोकस्य समष्ट्यईमा मे अग्ना इष्टका धेनवः सन्त्व् इति धेनवो वै नामैता इष्टका एताभिर् वै प्रजापतिर् यद्यद् अकामयत ततद् अदुह यद्यद् एवैताभिर् यजमानः कामयते तत्तद् दुह ऋतुष्ठाः स्थ ऋतावृधा इत्य् ऋतुष्ठा एवैना अकृत ऋतावृधो घृतश्च्युतो मधुश्च्युता इति घृतश्च्युत एवैना अकृत मधुश्च्युत ऊर्जस्वतीः पयस्वतीर् इत्य् ऊर्जस्वतीर् एवैना अकृत पयस्वतीः स्वधायिनीः कुलायिनीर् इति कुलायिनीर् ह्य् एता विराजो नाम कामदुघा इति यत्र वा अदो देवेभ्यः कामदुघाः कामम् अदुह्र तद् एता अपि दुदुह्रे तत् पुष्टिम् एवैताभिर् अवरुन्द्धे ऽमुत्रामुष्मिंल् लोक इत्य् अमुष्मै हि लोकायाग्निश् चीयते रुद्रं वै देवा यज्ञाद् अन्तरायंस् तान् आयतयाभिपर्यावर्तत तस्माद् वा अबिभयुस् ते देवाः प्रजापतिम् एवोपाधावन् स प्रजापतिर् एतञ् शतरुद्रियम् अपश्यत् तेनैनम् अशमयत् तद् य एवं वेद वेदाह वा एनं प्रजापतिर् नैनम् एष देवो हिनस्ति यत्र रुद्रः प्रजाः शमायेत तद् उदङ् परेत्येतद् एव वदंश् चक्रम्येत स्वायां वा एतद् दिशि स्वेन भागधेयेन रुद्रं शमयति जानुदघ्ने प्रथमं जुहोत्य् अस्या एवैनं तेन शमयति नाभिदघ्ने द्वितीयम् अन्तरिक्षात् तेन छुबुकदघ्ने तृतीयं दिवस् तेन त्रिर् जुहोति त्रयो वा इमे लोका एभ्यो वा एतल् लोकेभ्यो रुद्रं शमयति त्रिर् अमुतः पुनः प्रत्यवहारं जुहोति यान् एवेतो रुद्रान् यजति तान् अमुतो ऽवयजति त्रिर् इतो जुहोति त्रिर् अमुतस् तत् षट् षड् वा ऋतवस् ऋतुभ्यो वा एतद् रुद्रम् अवयजति समावञ्शो विभाजं जुहोति समावद्भाजो हि रुद्राणां भागा द्वासाहानि जुहोति द्वासाहैर् वै स तम् अशमयद् द्वासाहैर् एवैनं शमयत्य् अर्कपर्णेन जुहोति द्वासाहैर् वै स तम् अशमयद् द्वासाहैर् एवैनं शमयत्य् अर्कपर्णेन जुहोत्य् अर्केण वा एतद् अर्कम् अवयजति यत् पात्रेण जुहुयाद् रुद्रं प्रजास्व् अन्ववनयेत् तस्माद् आरण्येन जुहोति पशुर् वा अग्निः स वै तर्ह्य् एव जायते यर्हि चीयते स भागधेयम् इछति यथा वत्सो जातः स्तनम् इछति सो ऽध्वर्युं च यजमानं च प्रेक्षते यञ् शतरुद्रियं जुहोति स्वेनैवैनं भागधेयेन शमयति यासा उत्तरार्धे जघनार्धे श्रोणिस् तस्यां होतव्यं स्वायां वा एतद् दिशि स्वेन भागधेयेन प्रतिहृत्य रुद्रं शमयति अङ्गिरसो वै स्वर्यन्तो ऽजायां घर्मं प्रासिञ्चन् सा शोचन्ती पर्णं परामृशत् सो ऽर्को ऽभवद् यद् अर्कपर्णेन जुहोत्य् अर्केण वा एतद् अर्कम् अवयजति यं द्विष्यात् तस्य पशूनां सञ्चरे न्यस्येद् यः प्रथम आक्रमति स आर्तिम् आर्छति ॥म्स्_३,३।४॥
एतल् : फ़्न् एमेन्देद्। एद्।: एतं
जुहोति : फ़्न् एमेन्देद्। एद्।: जुहोति
शमयति : फ़्न् व पत्तेर्न् (प्) गेरुन्दिवे, (र्) वा एतत्
ऽर्को : फ़्न् एमेन्देद्। एद्।: ऽर्को।