अथैषा छन्दश्चितिश् छन्दांसि वै देवानां वामं पशवश् छन्दांस्य् एवैतया वामं पशून् यजमानो ऽवरुन्द्ध एतां वै यज्ञसेनश् चैत्र उपदधे स आनर्ध ऋध्नोति य एताम् उपधत्ते गायत्रीभिः पुरस्तात् सादयति तेजो वै गायत्री ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसम् अवरुन्द्धे तिस्र उपदधाति त्रिवृद् ध्य् अग्निर् मूर्धन्वतीभिः सादयति मूर्धन्यो ऽसानीति त्रिष्टुब्भिर् दक्षिणत ओजो वै वीर्यं त्रिष्टुब् ओज एव वीर्यम् अवरुन्द्धे जगतीभिः पश्चाद् जागताः पशवः पशून् एवावरुन्द्धे ऽनुष्टुब्भिर् उत्तरतो ऽनुष्टुब् वै सर्वाणि छन्दांसि सर्वाण्य् एवास्य छन्दांस्य् उपहितानि भवन्त्य् अथ पङ्क्तीर् अथ बृहतीर् अथोष्णिहो ऽथ ककुभो ऽथ विराज एवम् अस्य यथापूर्वं छन्दांस्य् उपहितानि भवन्ति द्विपदा उत्तमाः सादयति द्विपाद् यजमानः प्रतिष्ठित्यै छन्दांसि वै देवानां वामं पशवो यजमानायतनं वा आहवनीयो भ्रातृव्यायतनं धिष्ण्या यत् पश्चोपदध्याद् भ्रातृव्यायतने वामं पशून् दध्याद् अथ यत् पुर उपदधाति यजमानायतने वा एतद् वामं पशून् दधात्य् अष्टोपदधात्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तं चिनुते ऽष्टौ गायत्रीभिः पुरस्ताद् बहिःपवमानस्योपदध्याद् यद्य् एनं भ्रातृव्यो ऽतीव स्याद् एकादश त्रिष्टुब्भिः पुरस्तान् माध्यन्दिनस्य पवमानस्य द्वादश जगतीभिः पुरस्ताद् आर्भवस्य पवमानस्यैता एव पश्चात् पवामनानाम् उपदध्याद् यद्य् एनं भ्रातृव्यो ऽतीव स्यात् प्राणो वै पवामानो ऽग्नेस् तेजः पवमानस् तेजसा वा एतद् यजमानो भ्रातृव्यं प्रभूतं प्रणुदते तेजसा प्रतिनुदते तेजसा विनुदते तद् भ्रातृव्यस्य वा एष विनोदो जानुदघ्नं प्रथमं चिन्वानश् चिन्वीत गायत्रीचितं नाभिदघ्नं द्वितीयं चिन्वानश् चिन्वीत त्रिष्टुप्चितं चुबुकदघ्नं तृतीयं चिन्वानश् चिन्वीत जगच्चितं यज् ज्यायांसं चित्वा कनीयांसं चिन्वीत कनीयांसं यज्ञक्रतुम् उपेयात् कनीयसीं प्रजां कनीयसः पशून् कनीयो ऽन्नाद्यं पापीयान्त् स्याद् अथ यत् कनीयांसं चित्वा ज्यायांसं चिनुते ज्यायांसम् एव यज्ञक्रतुम् उपैति भूयसीं प्रजां भूयसः पशून् भूयो ऽन्नाद्यं वसीयान् भवत्य् एषा वा अग्नेर् उत्तरवती नाम चितिर् उत्तरमुत्तरं श्वःश्वः श्रेयान् भवति य एवं वेद ॥म्स्_३,३।२॥