अथैताः स्तोमभागा एतां वै बृहस्पतिर् असुरेभ्यो ऽधि यज्ञस्य प्रतिष्ठाम् आहरद् यद् एता उपधीयन्ते यज्ञस्य प्रतिष्ठित्यै यज्ञो वै देवानाम् अपद्यत तं देवाः स्तोमभागाभिः प्रत्युदस्तभ्नुवन् यद् एता उपधीयन्ते यज्ञस्योत्तब्ध्यै प्रजापतिर् वा एतत् पृथिव्या अग्नेस् तेजः समभरत् तद् अग्नेर् एवैतत् तेजः सम्भ्रियते ऽथैता नाकसदो नाकं ह वा अस्मा अग्निं चिक्यानाय भवति न वै तत्र किं चन जग्मुषे कं तस्मान् नाकसदो नाकसत्सु पञ्चचूडा अध्युपदधाति स्वर्गस्य लोकस्य समष्ट्यय् एष ह त्व् एव यजमानः पत्नीभिर् अग्निनामुष्मिंल् लोके सम्यङ् यस्यैता उपधीयन्ते ऽथो मध्ये ज्योतिर् एव चीयत एता वा अमुष्मिंल् लोके यजमानस्य पत्नीस् तस्माद् अग्निचिता स्त्री नोपेत्येर्ष्या हि सा पश्चात् प्राचीम् उत्तमाम् उपदधाति पश्चाद् ध्य् एतं प्राची पत्न्य् अन्वास्ते ऽथैताः कॢप्तयः प्रजापतिः प्रजा असृजत ता एनं सृष्टा अत्यमन्यन्त स प्रजापतिर् एता इष्टका अपश्यत् ता उपाधत्त ततो वा अकल्पत यद् एता उपधीयन्ते प्रजानां कॢप्त्यय् अथैता वृष्टिसनयो वृष्टिर् वै देवेभ्यो ऽन्नाद्यम् अपाक्रामत् तत इदं सर्वम् अशुष्यत् ते देवाः प्रजापतिम् एवोपाधावन् स प्रजापतिर् एता इष्टका अपश्यत् ता उपाधत्त तेभ्यो वृष्टिम् अन्नाद्यम् अवारुन्द्ध यद् एता उपधीयन्ते वृष्ट्या अन्नाद्यस्यावरुद्ध्यय् आवपनं वा उत्तमा चितिर् अन्याअन्या इष्टका उपदधात्य् अन्यानन्यान् एवास्मै पशून् प्रजनयति प्राणो वै स्वयमातृण्णायुर् वायव्या समीची उपदधात्य् आयुश् चैव प्राणं च सयुजा अकर् अथो समीचीनाभ्यां ह्य् आयुषा च प्राणेन च भुञ्जते प्राणो वै स्वयमातृण्णा ताम् उत्तमाम् उपदधात्य् उत्तमं ह्य् आयुर् यद् अन्याम् उत्तराम् उपदध्यात् प्राणम् अस्यापिदध्यात् प्रमायुकः स्यात् तस्मात् ताम् उत्तमाम् उपदधात्य् उत्तमं ह्य् आयुः ॥म्स्_३,३।१॥