उत्सन्नयज्ञो वा एष यद् अग्निश् चित्यः को ह तद् वेद यद् एतस्य क्रियते यन् नाश्विनौ वै देवानां भिषजा अकॢप्तस्य कल्पयितारौ यद् एता आश्विनीर् उपधीयन्ते ऽकॢप्तस्य कॢप्त्यै पञ्चोपदधाति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धाथो यावान् एव यज्ञस् तम् अचीकॢपद् अथैता आश्विनीर् ऋतव्या अनूपधीयन्ते रेतसे वा एतत् सिक्ताय ऋतून् उपाधात् तस्मात् सर्वेष्व् ऋतुषु रेतो हितं तस्मात् सर्वान् ऋतून् रेतो ऽनुप्रजायते ऽथैता ऋतव्या वायव्या अनूपधीयन्ते तस्मात् सर्वान् ऋतून् वायुर् अन्वावरीवर्त्य् अथैता वायव्या अपस्या अनूपधीयन्ते तस्मात् पशवो नानाव्रताः सन्तो ऽप एवाभि सव्रताश् चतस्रः पुरस्ताद् उपदधाति चतुर्विधं हि शिरः प्राणश् चक्षुः श्रोत्रं वाङ् मूर्धन्वतीभिः सादयति मूर्धन्यो ऽसानीति पञ्चपञ्चाभिता उपदधाति पशोः सवीर्यत्वायाथो सायतनत्वाय तस्मात् पशुः पश्चाद् वरीयाञ् श्रोणिमत्तरस् तस्माद् उ प्राङ् संहान इन्द्राग्नी अव्यथमानाम् इष्टकां दृंहतं युवम् इत्य् अन्तरिक्षं वा एषा चितिर् अन्तरिक्षम् इमाः प्रजा इन्द्राग्नी वै देवानाम् ओजोभृतव् ओजो वीर्यम् इन्द्राग्नी ओजो वा एतद् वीर्यं मध्यतः प्रजानां धीयते ऽथैता दिश्या देवा वै स्वर्गं लोकम् आयंस् ते दिशा आक्रमन्त ता अव्लीयन्त ता एताभिर् अदृंहन् यद् एता उपधीयन्ते दिशां धृत्यै पञ्चोपदधाति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध दशैताः पुरस्तात् सादयति दशाक्षरा विराड् विराट् खलु वै चक्षुर् ज्योतिश् छन्दसां चक्षुर् वा एतज् ज्योतिः पुरस्तात् पशोर् दधाति तस्माद् इदं पुरस्ताच् चक्षुर् अथो अन्नं वै विराड् अन्नं वा एतन् मुखतो दधाति मा छन्दः प्रमा छन्दः प्रतिमा छन्दा इतीयं वै मान्तरिक्षं प्रमासौ प्रतिमेमान् एव लोकान् उपधत्ते ऽथो देवछन्दसानि वा एतानि देवछन्दसान्य् एवोपधत्ते द्वादशद्वादशाभिता उपदधाति तत् षट्त्रिंशत् षट्त्रिंशदक्षरा बृहती बृहती खलु वै छन्दसां स्वाराज्यम् आनशे गछति स्वाराज्यं यस्यैता उपधीयन्ते पशवो वै बृहती पशवो मध्यमा चितिस् तस्माद् एतस्यां चित्याम् एता उपधीयन्त आदित्यधामानो वा उत्तरे प्राणा अङ्गिरोधामानो ऽधरे मूर्धासि राड् इति य उत्तरे प्राणास् तान् एताभिर् दाधार यन्त्री राड् इति ये ऽधरे प्राणास् तान् एताभिर् दाधार तद् एषां वावैताः प्राणानां विधृत्यै समावद्भाजः सादयति समावद्भाजो हीमे प्राणाः प्राणानां विधृत्यै यं द्विष्यात् तस्याक्ष्णया सादयेत् प्राणान् अस्य मोहयति प्रमायुको भवति मूर्धन्वतीभिः सादयति मूर्धन्यो ऽसानीति ॥म्स्_३,२।९॥
त्रिवृद्वतीं पुरस्तात् सादयति त्रिवृद् वै यज्ञमुखं मुखतो वा एतद् यज्ञमुखं ददाति सप्तदशवतीं दक्षिणतो ऽन्नं वै सप्तदशो ऽन्नं वा एतद् दक्षिणतो दधाति तस्माद् दक्षिणेन हस्तेनान्नम् अद्यते तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यवत्तरस् तस्माद् दक्षिणम् अर्धं वयांस्य् अनुपर्यावर्तन्ते पञ्चदशवतीम् उत्तरत ओजो वै पञ्चदश ओजो वा एतद् उत्तरतो दधात्य् एकविंशवतीं पश्चात् प्रतिष्ठित्यै त्रिवृद्वतीं पुरस्तात् सादयति त्रिवृद् वै यज्ञमुखं मुखतो वा एतद् यज्ञमुखं दधाति पञ्चदशवतीं दक्षिणतः सादयति सप्तदशवतीम् उत्तरतः पक्षयोः सवीर्यत्वायाथो सायतनत्वाय तस्माद् उभाभ्यां हस्ताभ्याम् अन्नम् अद्यते ऽथो वज्रो वै पञ्चदशो वज्रेण वा एतद् यजमानो भ्रातृव्यम् उभयतो निर्भजत्य् एकविंशवतीं पश्चात् प्रतिष्ठित्यै प्रतिष्ठा ह्य् एकविंशो ऽर्कस्य वा एष विधाम् अनुविधीयते ऽन्नम् अक्रो ऽन्नादो भवति यस्यैता उपधीयन्ते ऽग्नेर् भागो ऽसि दीक्षाया आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोमा इति स्पृतो वै नामैता इष्टका एताभिर् वै प्रजापतिर् यद्यद् अकामयत तत्तद् अस्पृणोद् यद्यद् एवैताभिर् यजमानः कामयते तत्तत् स्पृणोत्य् एकयास्तुवत प्रजा अधीयन्तेति सृष्टयो वै नामैता इष्टका एताभिर् वै प्रजापतिर् यद्यद् अकामयत तत्तद् असृजत यद्यद् एवैताभिर् यजमानः कामयते तत्तत् सृजते अग्ने जातान् प्रणुदा नः सपत्नान् इति पुरस्तात् सादयति य एव जाताः सपत्नास् तान् एतया प्रणुदते प्रत्य् अजातान् जातवेदो नुदस्वेति पश्चाद् य एव जाताः सपत्नास् तान् एतया प्रतिनुदते तद् भ्रातृव्यस्य वा एष विनोदश् चतुश्चत्वारिंशी स्तोमो वर्चो द्रविणम् इति दक्षिणतः सादयति षोडशी स्तोमा ओजो द्रविणम् इत्य् उत्तरतश् चतुश्चत्वारिंशदक्षरा वै त्रिष्टुब् वज्रस् त्रिष्टुब् वज्रः षोडशी सव्यापग्रहणो वै वज्रो दक्षिणाप्रहरणः सव्यापग्रहणं वा एतद् वज्रं दक्षिणाप्रहरणं यजमानो भ्रातृव्याय प्रहरति पुरीषवतीं मध्यतः सादयति पुरीषम् इव हीदं मध्यतः पशोः पुरीषं मध्यम् आत्मनः सात्मानम् एवाग्निं चिनुते ऽथैता विराजो वाग् वै विराट् पशवो वा एता इष्टकाः पशुषु वा एतद् उत्तमां वाचं दधाति तस्मात् पशुमान् उत्तमां वाचं वदति ॥