पुरुषशीर्षम् उपदधात्य् एष हि पशूनां वीर्यवत्तमो वीर्यम् अस्मिन् दधात्य् एकम् उपदधात्य् एकधास्मिन् वीर्यं दधाति सौर्या पुरुषशीर्षम् अभिजुहोति स्वर्गस्य लोकस्य समष्ट्यै सौरी वा एषा सती मैत्रावरुण्य् अहर् वै मित्रो रात्रिर् वरुणो ऽहोरात्रयोर् एव प्रतितिष्ठत्य् अर्धऋचाभ्यां जुहोतीयं वा अर्धऋचो ऽसा अर्धऋचो ऽनयोर् एव प्रतितिष्ठत्य् अथ यद् एकय ऋचा द्विर् जुहोति तस्माद् एकः सन् पुरुषो द्विपाद् यद् वा एतत् किञ्चाकर् योनिं वा एतद् व्यकर् यद् एता अपस्याः सादयति तस्मिन्न् एव योनौ रेतो दधातीयं वा अबिभेद् अग्निर् मातिधक्ष्यतीति सैता इष्टका अपश्यद् अथो आहुः प्रजापतिर् अपश्यद् इति ता उपाधत्ते यद् एता उपधीयन्ते ऽस्या अनतिदाहाय यद् इद् अन्नम् इति होवाचेयं य एता उपदधाता इत्य् अन्नादो भवति यस्यैता उपधीयन्ते तस्माद् रेतसः सिक्ताद् एष पशुः सम्भवति यद् एताश् छन्दस्याः पशवो वै छन्दांसि यद् दक्षिणत उपदध्याद् अभीपतः प्रजा वरुणो गृह्णीयाद् अथ यद् उत्तरत उपदधात्य् अपवाहत एवाथैताः प्राणभृतस् तस्मिन् पशौ सम्भूते प्राणं चक्षुः श्रोत्रं वाचं तानि दधात्य् अक्ष्णया सादयति पशुं वा एतद् आक्रमयति तस्मात् पशवो ऽक्ष्णयाङ्गानि प्रहरन्तो यन्ति दशभिर्दशभिर् वा अता इष्टकाभिर् ऋषय आर्ध्नुवंस् ता ऋद्धीर् ऋध्नोति यस्यैता उपधीयन्ते ऽथैताः संयतो रेतो वा एतत् सिच्यते यद् अग्निश् चीयते यद् एता उपधीयन्ते रेतसः सिक्तस्य संयत्यै लोकं पृण छिद्रं पृणेत्य् एषा वा अछिद्रेष्टका अछिद्रा वा एतया चितयश् चीयन्त इन्द्राग्नी त्वा बृहस्पतिर् इत्य् ओजो वै वीर्यम् इन्द्राग्नी ओजसा वा एतद् वीर्येणाग्निश् चीयते ता अस्य सूददोहसा इति परुषिपरुष्य् एव रसं दधाति सोमं श्रीणन्ति पृश्नया इत्य् अन्नं वै पृश्न्य् अन्नम् एवावरुन्द्धे जन्मन् देवानां विशा इत्य् आह प्रजात्या एव त्रिष्व् आ रोचने दिव इति सवनानि वै तृणि रोचनानि सवनचितम् एवैनम् अकर् अनुष्टुब् वा एषा वाग् वा अनुष्टुप् प्राणो वै वाग् यद् एषा सर्वा इष्टका अनुसञ्चरति तस्मात् प्राणः सर्वाण्य् अङ्गान्य् अनुसञ्चरत्य् आग्नेयी वा एषा वर्णेन स्वेन वा एतच् छन्दसाग्निश् चीयते नाध्वर्युः सन् नार्त्तिम् आर्छति य एवं वेद ॥म्स्_३,२।८॥