०७

अथैता विश्वज्योतिष एषु वा एतल् लोकेषु ज्योतिष्मन्तम् अग्निं निधत्ते ऽथो प्राणानां विधृत्यय् अथैषा त्र्यालिखितेमे वै लोकास् त्र्यालिखितेमान् एव लोकान् उपाधत्त उभये वा एताम् उपादधत देवाश् च वा असुराश् चोपरिष्टाल्लक्ष्माणं देवा उपादधताधस्ताल्लक्ष्माणम् असुरास् ततो देवा अभवन् परासुरा उपरिष्टाल्लक्ष्माणम् उपदधीत भ्रातृव्यवान् यो वास्य प्रियः स्यात् तस्य भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् एष वा असपत्नेष्टकासपत्नो भवति य एताम् उपधत्ते ऽथो देवलक्ष्मं वा एषा देवलक्ष्मम् एवोपधत्ते या सोखाया अधि मृद् उञ्शिष्यते तस्या एतां कुर्यात् तेनास्य सर्वा आग्नेयीर् इष्टका भवन्त्य् अथैष कूर्मः श्मशानचितो वा एते चीयन्ते जीवः कूर्म उपधेयस् तेन वा एषो ऽश्मशानचित् तेनोत्पाती पशूनां वा एष मेध एतं वै मेधं पश्यन्त एनं पशवो ऽमुष्मिंल् लोक उपतिष्ठन्ते प्रत्यञ्चं सादयति प्रत्यञ्चो हि पशवो मेधम् उपतिष्ठते द्यावापृथिवीयया सादयति द्यावापृथिवी हि पशवो ऽनूपतिष्ठन्ते पशुभिर् एवैनं सम्यञ्चं दधाति विष्णोर् नाभ्याम् अग्निश् चेतव्या इत्य् आहुः प्रादेशमात्रम् उलूखलं कार्यम् एतावान् वै विष्णुर् विष्णोर् वा एतन् नाभ्याम् अग्निस् चीयत ऊर्ज्य् अग्निश् चेतव्या इत्य् आहुर् ऊर्ग् वा उदुम्बरो यद् औदुम्बरम् उलूखलं भवत्य् ऊर्जि वा एतद् अग्निश् चीयते वैष्णव्या सादयति वैष्णवं ह्य् उलूखलं स्वयैव देवतयाथैषोखा पृथिव्या वा एतद् ओजो वीर्यं सम्भ्रियत ओजो वा एतद् वीर्यं मध्यतो ऽग्नेर् धीयते ऽथो मध्ये ज्योतिर् एव चीयते यद् रिक्ताम् अवेक्षेत क्षोधुको यजमानः स्याद् अथ यत् पूर्णाम् अवेक्षते तथा हाक्षोधुको भवति सिकताभिः पूरयितव्याग्नेर् वा एतद् वैश्वानरस्य भस्म यत् सिकताः स्वेनैवैनां भस्मना प्रीणाति दध्नः पूरयितव्योर्ग् वै दध्य् ऊर्जम् एवावरुन्द्धे हृतस्य पूरयितव्यैषा वा अग्नेः प्रिया तनूर् यद् घृतं प्रिययैवैनं तन्वा समर्धयति मधोः पूरयितव्या हास्य प्रजायां मधव्यो जायते व्यृध्यैन्द्रियाणि वै पशुशीर्षाण्य् अयज्ञियान्य् अमेध्यानि यच् छिद्रेषु हिरण्यशकलान्य् अप्य् अस्यतीन्द्रियेणैवैनानि वीर्येण समर्धयति मेध्यान्य् एनानि यज्ञियानि करोत्य् अर्धं वै पुरुषः सहस्रस्य यछन्त्य् अर्धम् इतरे पशवस् तस्माद् एतन् मध्यत उपदधात्य् अभिता इतराणि पशोः सवीर्यत्वायाथो सायतनत्वाय यं कामयेत पशुमान्त् स्याद् इति तस्य समीचीनानि पशुशीर्षाण्य् उपदध्यात् समीच एवास्मै पशून् उपदधाति पशुमान् भवत्य् अथ यं कामयेतापशुः स्याद् इति तस्य विषूचीनानि पशुशीर्षाण्य् उपदध्याद् विषूच एवास्मै पशून् उपदधात्य् अपशुर् भवत्य् एता वै साहस्रीर् इष्टकाः पश्विष्टकास् ताः सोमदक्षः कौश्रेयो विदाञ्चकार ताः श्यापर्णायोपदधौ स सहस्रं पशून् प्राप प्र सहस्रं पशून् आप्नोति यस्यैता उपधीयन्ते यविष्ठो वै नामैषो ऽग्निस् तस्माच् चिन्वीतान्तरा न व्येतवै यद् वीयात् प्राणान् अस्य युवेतोत्सर्गैर् उपतिष्ठत आरण्यान् एव पशूञ् शुचम् अनूत्सृजति ॥म्स्_३,२।७॥
एतल् : फ़्न् एमेन्देद्। एद्।: एतंल्
चिन्वीत : फ़्न् एमेन्देद्। एद्।: चिन्वत