०६

तपो योनिर् असीति पुष्करपर्णम् उपदधाति योनिर् वा एषो ऽग्नेर् यत् पुष्करपर्णं नाभिर् वधकः सयोनिर् एव सनाभिश् चीयत इयं वा अबिभेद् अग्निर् मातिधक्ष्यतीति यत् पुष्करपर्णम् उपदधात्य् अस्या अनतिदाहायाधस्तान्नाभि सादयत्य् ओषधीनां प्रतिष्ठित्यय् अथो ये ऽप्स्व् अग्नयस् तान् एवावरुन्द्धे प्रजापतिः प्रजा असृजत याः पुरा ब्रह्मणो ऽसृजत ताभिर् नाराध्नोद् अथ या ब्रह्ममुखा असृजत ताभिर् अराध्नोद् यद् ब्रह्म जज्ञानं प्रथमं पुरस्ताद् इति रुक्मम् उपदधात्य् ऋद्ध्यय् ऋध्नोत्य् एवाथो मिथुनत्वाय न पृथिव्याम् अग्निश् चेतव्यो नान्तरिक्षे न दिवीत्य् आहुर् अमृतं वै हिरण्यम् अमृते वा एतद् अग्निश् चीयते श्मशानचितो वा एते चीयन्ते चित्याञ्चित्यां हिरण्यशकलम् उपास्यति तेन वा एषो ऽश्मशानचित् तेन स्वर्गो ऽथैष पुरुषो हिरण्ययो यजमानलोकम् एवैष दाधारैष ह त्व् एव यजमानो ऽग्निनामुष्मिंल् लोके सम्यङ् यस्यैष उपधीयते ऽथो मध्ये ज्योतिर् एव चीयते द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इत्य् अभिमृशति होत्रास्व् एवैनं प्रतिष्ठापयत्य् अथैतानि सर्पनामानि मृत्युर् वै सर्पनामानि यद् उपदध्यात् प्रमायुकः स्यात् तस्माद् अनुदिशति सोमे वा एका त्विषिर् व्याघ्र एका सर्प एका ता एवावरुन्द्धे वामदेवस्य राक्षोघ्नेन व्याघारयत्य् एतेन वै वामदेवः कुसिताय्याः शिरा आदीपयद् रक्षसाम् अपहत्यै पञ्चभिर् व्याघारयति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धाथो यावान् एव यज्ञस् तस्माद् रक्षांस्य् अपहन्त्य् अथैते स्रुचौ कार्ष्मर्यमयीं दक्षिणतः सादयति रक्षसाम् अपहत्यै दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसंस् तानि कार्ष्मर्येणैवापाघ्नत यत् कार्ष्मर्यमयीं दक्षिणतः सादयति रक्षसामपहत्यै घृतस्य पूर्णा भवत्य् एषा वा अग्नेः प्रिया तनूर् यद् घृतं प्रिययैवैनं तन्वा समर्धयति गायत्र्या सादयति तेजो वै गायत्री ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसम् अवरुन्द्ध औदुम्बरीम् उत्तरतः सादयति दध्नः पूर्णाम् ऊर्ग् वा उदुम्बरो ऽन्नं दध्य् ऊर्ज्य् एवास्यान्नं दधाति त्रिष्टुभा सादयत्य् ओजो वै वीर्यं त्रिष्टुब् ओज एव वीर्यम् अवरुन्द्धे पूर्णे सादयत्य् अक्षिते यजमानलोकम् उपतिष्ठेते मूर्धन्वतीभ्यां सादयति मूर्धन्यो ऽसानीति विराज्य् अग्निश् चेतव्या इत्य् आहुः स्रुचौ वै विराजौ यत् स्रुचा उपदधाति विराजि वा एतद् अग्निश् चीयते ऽथैषा स्वयमातृण्णेयं वै प्रथमा स्वयमातृण्णान्तरिक्षं द्वितीयासौ तृतीयेमान् एव लोकान् उपधत्ते ऽश्वम् उपघ्राय्य सादयति प्रजापतिचित एवास्य भवत्य् अथो प्राणानाम् उत्सृष्ट्यै भूर् असीति प्राचीम् उदूहेद् यद्य् एनं भ्रातृव्यो ऽतीव स्याद् भूमिर् असीति प्रतीचीं यद्य् अन्व् अदितिर् असि भूमिर् असीति तिरश्चीं यदि सदृङ्ङ् इयं वा अदितिर् अनया वा एतद् यजमानो भ्रातृव्यं प्रभूतं प्रणुदते ऽनया प्रतिनुदते ऽनया विनुदते तद् भ्रातृव्यस्य वा एष विनोदः काण्डात्काण्डात् प्ररोहन्तीति दूर्वेष्टकाम् उपदधात्य् ओषधीनां प्रतिष्ठित्यै काण्डात्काण्डाद् ध्य् एषा प्रतितिष्ठति पशवो वा इष्टका न वै पशवा आयवसे रमन्ते यद् दूर्वेष्टकाम् उपदधात्य् आयतनम् इव वा एतत् क्रियते पशूनां यत्यय् अथैषा वामभृद् द्विर्यजुर् यजमानलोकम् अन्येन दाधार भ्रातृव्यलोकम् अन्येन वृङ्क्त एतया वै देवा असुराणां वामं पशून् अवृञ्जत तद् वामभृतो वामभृत्त्वं छन्दांसि वै देवानां वामं पशवश् छन्दांस्य् एवैतया वामं पशून् यजमानो भ्रातृव्यस्य वृङ्क्ते ऽथैते रेतःसिचव् इयं विराड् असु स्वराड् असा एव रेतः सिञ्चतीयं प्रजनयत्य् अग्निर् अत्यन्नादो भवति यस्यैते उपधीयेते यदि पुत्री चिन्वीत प्रथमायां चित्याम् अन्याम् उपदध्याद् उत्तमायाम् अन्यां रेतसः सिक्तस्य परिगृहीत्यै यद्य् अपुत्रः प्रथमायां चित्याम् उभे उपधेये सम्यञ्चौ हि भूत्वा रेतः सिञ्चतः ॥म्स्_३,२।६॥
प्रतितिष्ठति : फ़्न् एमेन्देद्। एद्।: प्रतितिष्ठतीति