कृष्टे वपति कृष्टे ह्य् ओषधयः क्षेपिष्ठं प्रतितिष्ठन्त्य् अन्नस्यान्नस्य वपत्य् ओषधीनाम् ऋग्भिर् ब्रह्म वा ऋग् ब्रह्मणैवास्मा अन्नाद्यम् अवरुन्द्धे चतुर्दशभिर् वपति द्वादश मासाः संवत्सरो ऽथ य एते चतुर्दशे अहोरात्रे एवैते तत् संवत्सरेण च वावास्मा एतद् अहोरात्राभ्यां चान्नाद्यम् अवरुन्द्धे ऽन्नं वै फलम् अन्नम् अर्को ऽर्को ऽग्निर् अर्केण वा एतद् अन्नम् अर्कम् अग्निं वपति यस्यान्नस्य निवपति यत् तस्याश्नीयाद् यान्य् अवरुद्धानि तैर् व्यध्येतेध्मे तस्यापिकुर्याद् अथो तन् मनसा ध्यायेत् तेनैव तद् अवरुन्द्धे यदि सर्वं न संविन्देद् यवान् मधूद्युतान् वपेद् यद् यवा ग्राम्यं तेनान्नाद्यम् अवरुन्द्धे यन् मध्व् आरण्यं तेन तेनैव तद् उभयम् अवरुन्द्धे ऽथैते सम्भारा दिग्भ्यो वा एतत् पृथिव्या ऊर्जं सम्भरत्य् ऊर्ज्य् अग्निश् चीयते यां जनतां कामयेत क्षोधुका स्याद् इतीषम् ऊर्जम् अहम् इत आदीति तस्या अर्धाद् आददीत क्षोधुका ह सा जनता भवति कामं कामदुघे धुक्ष्वेत्य् अभिमृशति तेनास्य सर्वा इष्टकाः कामदुघा भवन्त्य् उत्तरवेदिं निवपत्य् उत्तरवेदिम् इत्य् एवास्याग्निश् चीयते ऽथो यज्ञपरुषो ऽनन्तर्हित्यय् अग्निर् वा एष न्युप्यते यद् उत्तरवेदिर् यद् उत्तरवेदिं न्युप्याग्निं चिनोत्य् अग्नौ वा एतद् अग्निश् चीयते ऽग्ने तव श्रवो वपा इति सिकता निवपत्य् एता वै वैश्वानरीर् इष्टका अपरिमिता एतद् अग्नेर् अपरिमितं चीयते ऽग्नेर् वा एतद् वैश्वानरस्य सूक्तम् एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः प्रियायां वा एतत् तन्वाम् अग्निश् चीयते सतनूर् अर्को निधीयते लोमशं वा एतच् छन्दः पशव्यम् ऊनातिरिक्तं प्रजननायाशीत्यक्षरम् एतेन वै देवाः स्वर्गं लोकम् आयंस् तद् अस्याशीत्यक्षरत्वं समुद्रं वा एतच् छन्दो योनिः समुद्रः सोमो रेतोधा यत् सौमीभ्यां व्यूहति योनौ वा एतद् रेतो दधाति तस्माद् योनौ रेतो हितम् आप्यानवती भवतस् तस्माद् योनौ रेता आप्यायते छन्दोभिर् वा अग्निर् उत्तरवेदिम् अभिप्रह्रियते या अग्नौ प्रह्रियमाणे ऽन्वाहुस् तां तर्हि मनसा ध्यायेच् छन्दोभिर् एवैनम् उत्तरवेदिम् अभिप्रहरति मनसान्वाहानिरुक्तम् इव ह्य् एतद् अव्यावृत्तं व्यावृतं पाप्मना भ्रातृव्येण गछत्य् अश्वं पुरस्तान् नयन्ति रक्षसाम् अपहत्यय् आक्रमयन्ति य एवैनेन भ्रातृव्यः सदृङ् तं वज्रेणावबाधन्ते प्राञ्चं प्रक्रमयन्ति य एवैनं भ्रातृव्यो ऽति तं वज्रेण प्रणुदते प्रत्यञ्चम् अभ्यावर्तयन्ति य एवैनं भ्रातृव्यो ऽनु तं वज्रेण प्रतिनुदते तद् भ्रातृव्यस्य वा एष विनोदः कृष्णो वै भूत्वाग्निर् अश्वं प्राविशत् स एतद् अगछद् यत्र मृगशफो यद् अश्वम् आक्रमयन्ति यद् एवात्राग्नेर् न्यक्तं तस्यावरुद्ध्यै ॥म्स्_३,२।५॥