०४

तन् नः पर्षद् अति द्विषो ऽग्ने वैश्वानरः ॥ स्वाहेत्य् अपः परिषिञ्चन् पर्येति निरृत्या अनन्ववायाय भूत्यै नमा इत्य् उक्त्वावर्तते भूतिर् एव भूत्वावर्तत आत्मनो ऽहिंसायय् अनपेक्षमाणा आयन्ति निरृत्या अनन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव निरृतिं निरवदयन्त इन्द्रियेन वा एष वीर्येण व्यृध्यते यो नैरृतीर् उपधत्ते निवेशनः सङ्गमनो वसूनाम् इत्य् ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इन्द्रियेणैवात्मानं समर्धयति त्रिष्टुभोपतिष्ठत ओजो वै वीर्यं त्रिष्टुब् ओजस्य् एव वीर्ये प्रतितिष्ठति गार्हपत्यो ऽग्रे चीयते प्रतिष्ठित्यै गार्हपत्ये वै देवाः प्रतिष्ठाय प्राञ्चः स्वर्गं लोकम् अभिजयन्त आयन् यावान् पुरुष ऊर्ध्वबाहुस् तावता वेणुना विमिमीत एतावद् वै पुरुषे वीर्यं वीर्येणैव विमिमीते ऽथो एतावान् वै पुरुषे महिमा महिम्नो ऽवरुद्ध्यै यो वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो वेनुर् वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो ऽन्नं वै फलम् अन्नम् अर्को ऽर्को ऽग्निर् अर्केण वा एतद् अन्नम् अर्कम् अग्निं विमिमीते सप्त पुरुषान् प्रमिमीते सप्तभ्य एव पुरुषेभ्यो लोकं विन्दत्य् आ सप्तमात् पुरुषाद् अन्नादो भवत्य् अरत्निमात्रं पक्षयोर् अत्युपदधाति पक्षम्बृहद् धि वयः षड्भिः कृषति षाड् वा ऋतव ऋतुभिर् एव कृषतीत्थम् अभ्यावर्तन्त कृषत्य् एषा हि देवानाम् आवृद् अथो अमुष्य वा एतद् आदित्यस्यावृतम् अनुपर्यावर्तन्ते तिस्रस्तिस्रः सीताः सम्पादयति त्रिवृद् ध्य् अग्निर् द्वादश सीता भवन्ति द्वादश मासाः संवत्सरः संवत्सरस्य वा एष विधाम् अनुविधीयत इयं वा अबिभेद् अग्निर् मातिधक्ष्यतीति यत् कृषत्य् अस्या वा एतद् द्विगुणं क्रियते ऽनतिदाहायाथो पृथिव्या वा एतद् द्विगुणेनाग्नेर् वीर्यम् उद्यछन्त एतां दिशम् उत्सृजन्त्य् एषा हि देवानां दिग् अथो स्वर्गम् एवैनां लोकम् अनूत्सृजन्ति ॥म्स्_३,२।४॥
पर्षद् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।