अपेत वीत वि च सर्पताता इत्य् आह यमदेवत्यो वा अयं लोको यमो ऽमुष्य लोकस्याधिपत्यम् आनश यद् यमाद् देवयजनम् अनिर्याच्याग्निं चिन्वीतायमदेवत्यो ऽस्याग्निः स्याद् अस्वर्ग्यो यद् आहादाद् इदं यमो ऽवसानं पृथिव्या अक्रन्न् इमं पितरो लोकम् असा इति यमाद् वा एतेनास्या देवयजनं निरयाचिष्ट स्मृते देवयजने ऽग्निं चिनुते यमदेवत्यो ऽस्याग्निर् भवति स्वर्ग उद् उ घ्नन्ति यद् एवास्या अयज्ञियम् अमेध्यं तद् उद्घ्नन्ति व्याममात्रम् उद्घ्नन्त्य् एतावद् वै पुरुषे वीर्यं वीर्यसम्मिते चीयते ऽथो एतावान् वै पुरुषे महिमा महिम्नो ऽवरुद्ध्यय् अवोक्षति यद् एवास्या उद्घ्नन्तः क्रूरम् अक्रंस् तद् अक्रूरम् अकस् तञ् शमयत्य् अथो आपो वा अग्नेर् योनिः स्व एव योनौ चीयते ऽग्नेर् भस्मास्य् अग्नेः पुरीषम् असीति सिकता निवपत्य् अग्नेर् वा एतद् वैश्वानरस्य भस्म यत् सिकता स्व एव भस्मंश् चीयते योनिर् वै सिकता रेता ऊषा यत् सिकता न्युप्योषान् निवपति योनौ वा एतद् रेतो दधाति तस्माद् योनौ रेतो हितं तस्माद् योने रेतः प्रजायते प्रजापतिः प्रजा असृजत ता वा ऊषेभ्य एव योनेर् असृजत प्रजननं वा ऊषाः प्रजनने वा एतद् अग्निश् चीयत इमे वै सहास्तां ते वियती अब्रूताम् अस्तु नौ प्रियं धाम सहेत्य् आपो वा अस्या यज्ञिया मेध्यास् ता अमूर् ऊषा अमुष्या यज्ञिया मेध्यास् त इमे यद् आपश् चोषाश् च भवन्ति यद् एवैनयोर् यज्ञियं मेध्यं तद् अवरुन्द्धे ऽथो अनयोर् एवैनं प्रिये धामन् निधत्ते सञ्ज्ञानं वा ऊषा उभये वा एतान् पशवो ऽभिसञ्जानते ये ग्राम्याः पशवो ये चारण्या उभये हैनं पशवो ऽभिसञ्जानते चतस्रः प्राचीः सादयति चत्वारि वै छन्दांसि छन्दोभिर् वै देवाः स्वर्गं लोकम् आयंस् ते दिशा आक्रमन्त ता अव्लीयन्त ता एताभिर् अदृंहन् यद् एता उपधीयन्ते दिशां धृत्यै पशवो वा इष्टका गार्हपत्यं वै पशवो ऽनूपतिष्ठन्ते द्वे समीची पुरस्ताद् उपदधाति द्वे समीची पश्चाद् उभयत एवास्मै समीचः पशून् उपदधाति पशूनां परिगृहीत्यय् अष्टोपदधात्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तं चिनुत एकविंशतिः कार्या प्रतिष्ठित्यै प्रतिष्ठा ह्य् एकविंशो ऽथो एकविंशतिविधो हि गार्हपत्यस् त्रिचितिकः कार्यस् त्रयो वा इमे लोका इमान् एव लोकान् आप्नोति पञ्चचितिकः कार्यः पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध चतुर्भिः सन्निवपति चत्वारि वै छन्दांसि छन्दोभिर् एव सन्निवपत्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणैव सन्निवपति क्षत्रं वा एषो ऽग्नीनां यश् चीयते क्षत्रं य उख्यो ब्रह्म यजुर् यद् यजुषा सन्निवपति ब्रह्मणा वा एतत् क्षत्रं सन्नयति तस्माद् ब्रह्मणा क्षत्रं सं चैति वि च द्वौ वा एतौ व्याघ्रौ सं पद्येते ता ईश्वरा अशान्तौ यजमानं हिंसितोर् यद् आह भवतं नः समनसौ समोकसौ सचेतसा अरेपसा इति शमयत्य् एव शान्त एव न्युप्यते यजमानस्याहिंसायय् ऋतुभिर् वै पृथिव्या वीर्यम् उद्यतं तद् ऋतुभिः पुनर् विमुच्यते यद् आह प्रजापतिर् विश्वकर्मा विमुञ्चत्व् इति प्रजापतिर् एवैनां विश्वकर्मा विमुञ्चति ॥म्स्_३,२।३॥
अथैता नैरृतीस् तिस्रस् तुषपक्वा भवन्त्य् एतद् वै नैरृतम् अन्नस्य यत् तुषाः कृष्णा भवन्त्य् एतद् धि निरृत्या रूपम् एतां दिशं हरन्त्य् एषा हि निरृत्या दिक् ताः स्वकृता इरिणे पराचीर् निदधात्य् एतद् वै निरृतिगृहीतं पृथिव्या निरृतिगृहीत एव निरृतिं निरवदयते प्राणम् एवास्य प्रथमया मुञ्चत्य् अपानं द्वितीयया व्यानं तृतीययाथो त्र्यक्षरो वै पुरुषो यावान् एव पुरुषस् तं निरृत्याः पाप्मनो मुञ्चति निरृतिर् वै कर्मण उपद्रष्ट्रिका तां वा एतत् स्वेन भागधेयेन शमयित्वाथ सवितृप्रसूतो ऽग्निं चिनुते यं ते देवी निरृतिर् आबबन्धेति जालम् इष्टकास्व् अध्यस्यति निरृतिपाशम् एवोन्मुञ्चत आत्मनो ऽहिंसायै ॥
यद् अस्य पारे रजसो महश् चित्रं ज्योतिर् अजातय ।