०१

दृशानो रुक्म उरुया विभातीति रुक्मं प्रतिमुञ्चते ऽमृतं वै हिरण्यं मृत्योर् एतद् रूपं यद् अग्निर् यत् पाशो ऽमृतेनैव मृत्युम् अन्तर्धत्ते ऽथैते निर्बाधा देवाश् च वा असुराश् चास्पर्धन्त ते देवा एतान् निर्बाधान् अपश्यंस् तैर् असुरान् एभ्यो लोकेभ्यो निरबाधन्त तन् निर्बाधानां निर्बाधत्वं तद् एतैर् एव निर्बाधैर् यजमानो भ्रातृव्यम् एभ्यो लोकेभ्यो निर्बाधत एकविंशतिनिर्बाधो भवति प्रतिष्ठित्यय् उपरिष्टान् निर्बाधं बिभर्त्य् अधस्तान् निर्बाधं सादयति भ्रातृव्यस्य विनुत्त्यै नक्तोषासा समनसा विरूपा इत्य् अहोरात्राभ्याम् एवाग्निम् आधत्ते धापयेते शिशुम् एकं समीची इत्य् एतं ह्य् एते धापयेते शिशुम् एकं समीची द्यावाक्षामा रुक्मो अन्तर् विभातीत्य् एष ह्य् एतयो रुक्मो ऽन्तर् विभाति देवा अग्निं धारयन् द्रविणोदा इति प्राणा वै देवा द्रविणोदाः प्राणैर् एवाग्निम् उद्यछते विश्वा रूपाणि प्रतिमुञ्चते कविर् इति विश्वा हि रूपाण्य् अग्निः प्रासावीद् भद्रं द्विपदे चतुष्पदा इत्य् आह प्रसूत्या एव वि नाकम् अक्शत् सविता वरेण्या इति सवितृप्रसूत एवाग्निं बिभर्त्य् अनु प्रयाणम् उषसो विराजतीति तस्माद् उषसो व्युष्टिम् अन्व् अग्निर् आधीयते सुपर्णो ऽसि गरुत्मांस् त्रिवृत् ते शिरो गायत्रं चक्षुर् इत्य् अग्नेर् वा एषा सम्भृतिर् अग्निम् एतत् सम्भरति तस्मात् सम्भरति तस्मात् सर्वैर् अङ्गैः पशुर् जायते पशुर् ह्य् अग्निर् दिवं गछ स्वः पतेत्य् आह स्वर्गस्य लोकस्य समष्ट्यय् अथैते क्रमा देवाश् च वा असुराश् चास्पर्धन्त ते देवा एतान् क्रमान् अपश्यंस् तैर् असुरान् एभ्यो लोकेभ्यः प्राणुदन्त तान् अनपजय्यम् अजयंस् तद् एतैर् एव क्रमैर् यजमानो भ्रातृव्यम् एभ्यो लोकेभ्यः प्रणुदते ऽनपजय्यं ह जयति षडुद्यावं शिक्यं भवति षड् वा ऋतव ऋतुभिर् एवाग्निं परिगृह्णात्य् उपरिनाभि बिभर्त्य् उपरिनाभि ह्य् आत्मनः सदेवं सदेव एव देवता आत्मन् बिभर्ति यद् अधोनाभि बिभृयाद् योनिं निर्दहेद् अथो ऽवधैनं घातुकं स्यात् प्रक्रामति तस्माद् ग्राम्याः पशवः प्रेरते ऽथ यत् पुनर् अभ्यावर्तते तस्मात् पुनः समावर्तन्त ऊर्जा वा एष पशुभिर् उत्क्रामन्त् सहोत्क्रामति पुनर् ऊर्जा निवर्तस्वेति तद् ऊर्जम् एव पशून् पुनर् अवरुन्द्धे पुनर्वतीर् भवन्ति समृद्ध्यै चतसृभिर् अभ्यावर्तते चतुष्पादो वै पशवः पशून् एवावरुन्द्ध इत्थं पर्यावर्तत एवं हि यज्ञः पर्यावर्तते ऽथो अमुष्य वा एतद् आदित्यस्यावृतम् अनु पर्यावर्तत आ त्वाहार्षम् अन्तर् अभूर् इत्य् अन्तर् ह्य् एष एतर्ह्य् उद् उत्तमं वरुण पाशम् अस्मद् इति वरुणपाशम् एवोन्मुञ्चत आत्मनो ऽहिंसायय् अग्रे बृहन्न् उषसाम् ऊर्ध्वो अस्थाद् इति ज्योतिषैवैनं समर्धयति हंसः शुचिषद् वसुर् अन्तरिक्षसद् इति सादयति सप्त एवैनं होत्रासु प्रतिष्ठापयत्य् अथो सप्त वा एतेन साप्तान्य् अग्नेर् ऋध्नोत्य् आ सप्तमात् पुरुषाद् अन्नादो भवति रेतो वा अग्निर् अन्तरिक्षं वै रेतो ऽनुषिच्यते यद् अधो निदध्याद् अधृताः पशूनां गर्भाः प्रपादुकाः स्युर् अथ यद् उपरि सादयत्य् अन्तरिक्षसदम् एवैनम् अकर् गर्भाणां धृत्यै सूयते वा एषो ऽग्नीनां यश् चीयते तस्माद् एष आसन्दीसत् सीद त्वं मातुर् अस्या उपस्था इतीयं वा अग्नेर् योनिः स्व एवैनं योनौ संवेशयति तिसृभिर् उपतिष्ठते त्रिवृद् ध्य् अग्निः ॥म्स्_३,२।१॥
अग्रे : फ़्न् एमेन्देद्। एद्।: अग्ने। च्फ़्। २।७।८:८५।१४