क्षत्रं ब्रह्म जिन्वति ब्राह्मणस्य यत् समीची कृणुतो वीर्याणि ॥म्स्_३,१।९॥
अग्निभ्यः ॥ इति कामायालभ्यन्ते यत्कामो भवति सं हास्मै स कामो नमत्य् आप्रीणन्ति यज्ञियान् एवैनान् मेध्यान् कुर्वन्ति पर्यग्निकृतान् उत्सृजन्त्य् अयातयामत्वायैकेन संस्थापयन्ति यज्ञस्य सन्तत्या अविछेदाय पुष्करा भवन्ति सेन्द्रियत्वाय त्रिष्टुभो याज्यानुवाक्या भवन्तीन्द्रियस्यावरुद्ध्यय् अथैषो ऽग्नये वैश्वानराय द्वादशकपालः संवत्सरो वा अग्निर् वैश्वानर एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः प्रिययैवैनं तन्वा समर्धयत्य् अथो अयातयामत्वायैवायातयामा हि वैश्वानरः श्वेतं वायवे नियुत्वता आलभेत तेजस्कामो वायुर् वा अग्नेस् तेजस् तस्माद् वायुम् अग्निर् अन्वेति यद् वायवे ऽग्नेः सतेजस्त्वाय यद् वायव एकधा स्याद् उन्मादुको यजमानः स्याद् यन् नियुत्वते द्वितीयत्वायाथो धृत्या अनुन्मादाय सर्वेषां वा एष पशूनां रूपाणि प्रति यद् वायव एकधा स्याद् उन्मादुको यजमानः स्याद् यद् एष प्राजापत्यो द्वादशकपालो द्वितीयत्वायाथो धृत्या अनुन्मादायाथैष आग्नावैष्णव एकादशकपालो ऽग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्धाथैष आदित्यो घृते चरुर् आदित्या वा इत उत्तमाः स्वर्गं लोकम् आयंस् तेभ्य एव प्रोच्य स्वर्गं लोकम् एत्य् आदित्या वा अस्मिंल् लोक ऋद्धा आदित्या अमुष्मिन् पुरोडाशेन वै देवा अस्मिंल् लोक आर्ध्नुवंश् चरुणामुष्मिन्न् अस्मिन्न् एव लोके पुरोडाशेन ऋध्नोति चरुणामुष्मिन्न् अथैषो ऽग्नये वैश्वानराय द्वादशकपालो देवायतनं वा अग्निर् वैश्वानरो देवायतन एव प्रतिष्ठाप्याग्निं बिभर्त्य् अथो कामो वै वैश्वानरो यत्कामो भवति सं हास्मै स कामो नमति ॥