मित्रैतां त उखां परिददाम्य् अभित्त्यय् एषा मा भेदि ॥ इति मित्रायैवैनां परिददात्य् अभित्त्यै यद् धि मित्रायापरित्ता भिद्येत पुनः कार्या स्याद् वसवस् त्वाछृन्दन्तु गायत्रेण छन्दसेति छन्दोभिश् च वा एषा देवताभिश् च क्रियते छन्दोभिश् चैवैनां देवताभिश् चाछृणत्ति स्वेनायतनेनाजक्षीरेणाछृणत्त्य् आग्नेयं वा एतत् पयो यद् अजक्षीरम् आग्नेयम् एतत् पात्रं यद् उखा स्वेन वा एतत् पयसा स्वं पात्रम् आछृणत्ति परमं वा एतत् पयो यद् अजक्षीरं परमम् एतत् पात्रं यद् उखा परमेण वा एतत् पयसा परमं पात्रम् आछृणत्ति ॥म्स्_३,१।८॥
षड् एतान्य् आधीतयजूंषि जुहोति षड् वा ऋतव ऋतुभिर् वा एतत् पृथिव्या वीर्यम् उद्यछते नाना जुहोति नानावीर्या हीमे प्राणाः प्राणानां विधृत्यै यं कामयेत बधिरः स्याद् इति तस्य सकृत् सर्वाण्य् अनुद्रुत्य जुहुयात् प्राणान् अस्य सम्भिनत्ति बधिरो भवति तस्माद् बधिरो वाचा वदति न शृणोति वाचं ह्य् अस्येन्द्रियम् अनुपद्यते प्राणा वा एतानीतराणि छन्दांसि वाग् अनुष्टुब् यद् अनुष्टुभा सप्तमं जुहोति वाचं वा एतत् प्राणेषूपसन्दधाति तस्माद् इयं वाक् सप्तमी प्राणानां मा सु भित्था मा सु रिषा इति प्रवृणक्त्य् असुरमाया वा एषासीत् तां देवा एतेन यजुषावृञ्जतासुरी माया स्वधया कृतासीति तन् मायाम् एवैतेन यजमानो भ्रातृव्यस्य वृङ्क्ते द्वाभ्यां प्रवृणक्ति द्विपाद् यजमानः प्रतिष्ठित्यै प्रवृञ्ज्याद् भूतिकामस्य भविष्यद् वा इदम् उपजीवामो भविष्यद् एवोपैति श्वःश्वः श्रेयान् भवति जातम् अवदध्याद् गतश्रीर् जातो वा एष यो गतश्रीर् जातेनैवैनं जनयति भ्रष्ट्राद् आहरेद् यं कामयेतान्नादः स्याद् इत्य् एष वा अग्नीनाम् अन्नादो ऽन्नकरणं भ्रष्ट्रम् अन्नाद्यम् अस्मा अवरुन्द्धे प्रदावाद् आहरेद् यं कामयेत प्रसेनेनास्य राष्ट्रं जायुकं स्याद् इति प्रसेनेनास्य राष्ट्रं जायुकं भवति यतः कुतश्चाहृत्यावदध्याद् यं कामयेतास्य पाप्मा भ्रातृव्यो द्वितीयो जायेतेत्य् एतद् वै यजमानस्यायतनं स्वे वावास्मा एतद् आयतने पाप्मानं भ्रातृव्यं द्वितीयं जनयति द्र्वन्नः सर्पिरासुतिर् इति क्रुमुकं घृतान्वक्तम् आदधात्य् एषा वा अग्नेः प्रिया तनूर् यत् क्रुमुकस् तेजो घृतं प्रिययैवैनं तन्वा तेजसा च समर्धयति परस्या अधि संवता इत्य् औदुम्बरीं देवा यत्रोर्जं व्यभजन्त तत उदुम्बरा उदतिष्ठद् यद् औदुम्बर्य् ऊर्जम् एवावरुन्द्धे परमस्याः परावता इति वैकङ्कतीम् अग्नेर् वै सृष्टस्य भा अपाक्रामत् तद् विकङ्कतं प्राविशद् यद् वैकङ्कती भा एवावरुन्द्धे यद् अग्ने यानि कानि चेति शमीमयीं शान्त्यय् अग्नये वै न किञ्चनापरशुवृक्णम् अस्वदन्त तस्मै वा एतयासङ्गः प्रायोगिः सर्वम् अस्वदयद् यद् अग्ने यानि कानि चेति तद् अग्नय एवैतया सर्वं स्वदयति सर्वम् अस्मै स्वदितं भवति रात्रींरात्रीम् अप्रयावं भरन्ता इत्य् आशिषम् एवाशास्ते नाभा पृथिव्याः समिधानो अग्निम् इति पृतनाजितम् एवैनम् अकर् अग्निं वै सृष्टं रक्षांस्य् अजिघांसंस् तानि वा एताभिर् एवापाहत याः सेना अभीत्वरीर् इति तद् अग्नेर् एवैताभी रक्षांस्य् अपहन्त्य् एता एव समिधा आदध्याद् यत्र रक्षोभ्यो बिभीयाद् रक्षसाम् अपहत्यय् अथो ग्राहुका ह तां समां स्तेनान् भवन्ति तैल्वकीम् अभिचरन्न् आदध्याद् एष वै वनस्पतीनां वज्रस् ताजग् घ प्रमीयते यं द्विष्यात् तं तर्हि मनसा ध्यायेन् मनो वा आशीर् यो वाच आहुतिम् एवैनं भूतम् अग्नये ऽपिदधाति यो अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जना इति तस्माद् अग्निचितो ऽश्लीलं न कीर्तयितव्यं नो अग्निविदः संशितं मे ब्रह्म संशितं वीर्यं बलम् इति ब्रह्मणा वा एतत् क्षत्रं संश्यति क्षत्रेण ब्रह्माथो ब्रह्म चैव क्षत्रं च सयुजा अकर् एतद् वा एषाभ्यनूक्ता ॥
प्रायोगिः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
ब्रह्म क्षत्रं सयुजा न व्यथेते इति ब्रह्माह क्षत्रं जिन्वति क्षत्रियस्य ।