०७

मखस्य शिरो ऽसीत्य् आह यज्ञो वै मखस् तस्य वा एतञ् शिरो यद् उखा मुखतो वा एतद् यज्ञम् आलब्ध वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसेति छन्दोभिश् च वा एषा देवताभिश् च क्रियते छन्दोभिश् चैवैनां देवताभिश् च करोति ध्रुवासि पृथिव्य् असीति छन्दसाम् एवैषाशीर् अदित्या रास्नास्य् अदितिष् टे बिलं गृभ्णात्व् इति यजुषा करोत्य् अयजुषा हि मनुष्याः कुर्वन्ति व्यावृत्त्यै तां पुत्रेभ्यः प्रायछद् अदितिः श्रपयान् इत्य् आदित्या वा इदं स्मो यन् मनुष्यांस् तेभ्य एवैनां सम्प्रादात् त्र्युद्धिः कार्या त्रयो वा इमे लोका एषां वा एषा लोकानाम् उखा प्रतिमा क्रियते ऽष्टस्तना कार्या गायत्र्या रूपं चतुस्तना कार्यादित्या दोहाय द्विस्तना कार्यान्तरिक्षं वा उखेमौ लोकौ स्तनौ प्रत्तौ ह वा इमौ लोकौ दुहे य एवं वेद व्याममात्री कार्यैतावद् वै पुरुषे वीर्यं वीर्यसम्मिता क्रियते ऽथो एतावान् वै पुरुषे महिमा महिम्नो ऽवरुद्धयय् अरत्निमात्री कार्या यज्ञपुरुषासम्मिता प्रादेशमात्री कार्या विष्णुना यज्ञेन सम्मिताथो प्रजापतेर् एवानतिवादाय सप्तभिर् धूपयति सप्त वै शीर्षन् प्राणाः शिर एतद् यज्ञस्य यजुषा शीर्षन् वा एतत् प्राणान् दधाति सप्तभिर् धूपयति सप्त वै छन्दसांसि छन्दोभिर् एवैनां धूपयत्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणैवैनां धूपयति वैष्णवं वा एतत् पात्रं तत् स्वया देवतया व्यर्धयति यद् अन्याभिर् देवताभिर् धूपयति यद् आह विष्णुस् त्वा धूपयत्व् अङ्गिरस्वद् इति स्वयैवैनं देवतया समर्धयत्य् अस्वशकेन धूपयति वृषा ह्य् अश्वो वृषाग्निः समृद्ध्यय् अथो प्राजापत्यो वा अश्वः प्राजापत्यो ऽग्निस् तस्माद् अश्वशकेन धूपयति सयोनित्वाय ॥म्स्_३,१।७॥

प्रजापतिर् वा अमन्यत यो वा अस्या अग्रे विखनिष्यत्य् आर्तिं स आरिष्यतीति स एतद् यजुर् अपश्यद् अदितिष् ट्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् खनत्व् अवटेतीयं वा अदितिर् देवी विश्वदेव्यवत्य् अनया वै स तद् अस्याम् अखनद् अहिंसायै न हि स्वः स्वं हिनस्ति देवानां त्वा पत्नीर् देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वद् दधतूखा इत्य् ओषधयो वै देवानां पत्नीर् देवीर् विश्वदेव्यवतीर् ओषधीष्व् एवैनां प्रतिष्ठापयति धिषणा त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वद् अभीन्धाताम् उखा इति वाग् वै धिषणा देवी विश्वदेव्यवती वाचैवैनाम् अभीन्द्धे ग्नास् त्वा देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वञ् श्रपयन्तूखा इति छन्दांसि वै ग्ना देवीर् विश्वदेव्यवतीश् छन्दोभिरेवैनां श्रपयति वरूत्री त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् पचताम् उखा इत्य् अहोरात्रे वै वरूत्री देवी विश्वदेव्यवती अहोरात्राभ्याम् एवैनां पचति जनयस् त्वाछिन्नपत्रा देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वत् पचन्तूखा इति नक्षत्राणि वै जनयो ऽछिन्नपत्रा देवीर् विश्वदेव्यवतीर् नक्षत्रैर् एवैनां पचत्य् एता वा एताम् अग्रे देवताः प्रजापतये ऽपचंस् तस्माद् एतानि पङ्क्तिमन्ति यजूंषि तैर् एवैनां पचति द्वाभ्यां पचति द्विपाद् यजमानः प्रतिष्ठित्यै वरुणमेनिर् वा एष एतर्ह्य् अभीद्धो मित्रस्य चर्षणीधृता इति मित्रेणैव वरुणमेनिम् उपैति देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिर् इति सवितृप्रसूत एवैनाम् उद्वपत्य् आत्मनो ऽहिंसायय् उत्तिष्ठ बृहती भवेत्य् आह धृत्या एवाव्यथमाना पृथिव्याम् आशा दिशा आपृणेति तस्माद् अग्निः सर्वा दिशा आभाति ॥