स्थिरो भव वीड्वङ्गा इति गर्दभ आदधाति वीर्यम् अस्मिन् दधाति तस्मात् सर्वेषां पशूनां गर्दभो वीर्यवत्तमो वीर्यं ह्य् अस्मिन् दधातीश्वरो वा एषो ऽन्तरिक्षसद् भूत्वा प्रजा हिंसितोर् यद् आह शिवो भव प्रजाभ्या इति प्रजाभ्य एवैनं शिवम् अकर् मा पाद्य् आयुषः पुरेत्य् आयुर् एवास्मिन्दधाति समष्ट्यै वृषाग्निं वृषणं भरन्न् इति वृषा ह्य् एष वृषणं भरन्न् अपां गर्भं समुद्रियम् इत्य् अपां ह्य् एष गर्भः समुद्रियो ऽग्ना आयाहि वीतया इत्य् अग्निना वै मुखेन देवा इमांल् लोकान् अभ्यजयन्न् अग्निना वा एतन् मुखेन यजमान इमांल् लोकान् अभिजयत्य् ऋतं सत्यम् ऋतं सत्यम् ऋते चैव सत्ये च प्रतितिष्ठतीयं वा ऋतम् असौ सत्यम् अनयोर् एव प्रतितिष्ठत्य् अहर् वा ऋतं रात्रिः सत्यम् अहोरात्रयोर् एव प्रतितिष्ठत्य् ओषधयः प्रतिगृभ्णीताग्निम् एतम् इत्य् ओषधीर् एवैनं सम्यञ्चं दधाति पुष्पवतीः सुपिप्पला इत्य् ओषधीर् एव फलं ग्राहयति तस्माद् ओषधयः शीर्षन् फलं गृह्णन्ति वरुणमेनिर् वा एष एतर्ह्य् उपनद्धो वि पाजसा पृथुना शोशुचाना इत्य् अनुरूपेणैव वरुणमेनिं विष्यति द्वाभ्यां विष्यति द्विपाद् यजमानः प्रतिष्ठित्यय् आपो हि ष्ठा मयोभुवा इत्य् अप उपसृजत्य् आपो वा अशान्तस्य शमयित्रिकास् तस्माद् अप उपसृजति शान्त्यै तिसृभिर् उपसृजति त्रिवृद् ध्य् अग्निर् वरुणमेनिर् वा एष एतर्हि मित्रः संसृज्या पृथिवीम् इति मित्रेणैव वरुणमेनिं संसृजति रुद्राः संसृज्या पृथिवीम् इत्य् एता वा एताम् अग्रे देवताः प्रजापतये समसृजंस् ताभिर् एवैनां संसृजति पञ्चभिः संसृजति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध ॥म्स्_३,१।६॥
सत्यम् : फ़्न् प्रोबब्ल्य् सत्यम् इति
गृह्णन्ति : फ़्न् चोर्रिगेन्द। एद्।: गृह्णाति।