अपां पृष्ठम् असीत्य् आहापां ह्य् एतत् पृष्ठं पृष्ठेनैवैनत् पृष्ठम् अकर् योनिर् अग्नेर् इति योनिर् वा एषो ऽग्नेर् यत् पुष्करपर्णं नाभिर् वधकः सयोनिर् एव सनाभिः सम्भ्रियते दिवो मात्रया वरिणा प्रथस्वेत्य् अनयोर् एवैनम् मात्रया वरिणा प्रथयति शर्म च स्थो वर्म च स्था इति कृष्णाजिनं च पुष्करपर्णं च संस्तृणातीमे एवास्मा एतद् द्यावापृथिवी संस्तृणाति व्यचस्वती संवसेथाम् इति न वा एतन् मनुष्या यन्तुम् अर्हन्त्य् आभ्याम् एवैनं परिगृह्णाति कृष्णाजिनेन सम्भरत्य् एष हि पशूनाम् अनुपजीवनीयतमो ऽथो आरण्यान् एव पशूञ् शुचार्पयति लोमतः सम्भरत्य् अतो वै कृष्णाजिनस्य सदेवं यज्ञेनैव यज्ञं सम्भरति पुष्करपर्णेन सम्भरति योनिर् वा एषो ऽग्नेर् यत् पुष्करपर्णं स्वेनैवैनं योनिना सम्भरति गायत्रीभिर् ब्राह्मणस्य सम्भरति गायत्रो हि ब्राह्मणस् त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यो जगतीभिर् वैश्यस्य जागतो हि वैश्यस् यं कामयेत ऋध्नुयाद् इति तस्य गायत्रीभिश् च त्रिष्टुब्भिश् च सम्भरेद् ऋध्नोति पुरीष्यो ऽसि विश्वम्भरा अथर्वा त्वा प्रथमो निरमन्थद् अग्ना इति प्रजापतिर् वा अथर्वा स एतम् अग्रे ऽमन्थत् सो ऽजनयत् स्व एवैनं मन्थति स जनयति तिसृभिः सम्भरति त्रयो वा इमे लोका एभ्य एवैनं लोकेभ्यः सम्भरति यजुस् तुरीयं दिग्भ्य एवैनं तेन सम्भरति पुरोवातं वै वातं वर्षम् अनुप्रतितिष्ठति वर्षम् अन्व् ओषधया ओषधीर् अनु पशवः पशून् अनु मनुष्या एता वै प्रतिष्ठास् ता यजमानो ऽवरुन्द्धे ऽपो देवीर् उपसृजा मधुमतीर् इत्य् आहौषधीनां प्रतिष्ठित्यै तासाम् आस्थानाद् उज्जिहताम् ओषधयः सुपिप्पला इति तस्माद् एतासाम् आस्थानाद् उज्जिहताम् ओषधयः सुपिप्पलाः सं ते वायुर् मातरिश्वा दधात्व् इति तस्माद् एतस्या यत् कृष्यते यत् खायते तत् सन्धीयते यद् घृतेन जुहुयाञ् शुचेमाम् अर्पयेद् अथ यद् अप उपसृजति शमयत्य् एव यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम् इति षड् वा ऋतव ऋतुषु वा एतद् वृष्टिं प्रतिष्ठापयति तस्मात् सर्व ऋतवो वृष्टिमन्तः सुजातो ज्योतिषेति स्वर्ग्यम् एवैनम् अकर् वासो अग्ने विश्वरूपं संव्ययस्व विभावसा इति छन्दांसि वा अग्नेर् वासश् छन्दांस्य् एष वस्ते छन्दोभिर् एवैनं परिददात्य् आगामुकम् एनम् अस्मिंल् लोके वासो भवत्य् अनग्नो ऽमुष्मिंल् लोके भवति य एवं वेद वरुणमेनिर् वा एष एतर्ह्य् उद् उ तिष्ठ स्वध्वरेत्य् ऊर्ध्वाम् एव वरुणमेनिम् उत्सृजति द्वाभ्याम् उत्सृजति द्विपाद् यजमानः प्रतिष्ठित्यै स जातो गर्भो असि रोदस्योर् इत्य् अनयोर् वा एष गर्भ आभ्याम् एषो ऽधिजायत आभ्याम् एवैनम् अधिजनयत्य् अग्ने चारुर् विभृता ओषधीष्व् इति तस्मात् सर्वास्व् ओषधीष्व् अग्निः प्र मातृभ्यो अधि कनिक्रदद् गा इत्य् ओषधयो वा एतस्य मातरस् ताभ्या एवैनम् अधि प्रच्यावयतैछद् वा एतं प्रजापतिः पूर्वेणार्धऋचेनानूत्तरेणातिष्ठतैषीद् एवैनं पूर्वेणार्धऋचेनानूत्तरेणास्थित ॥म्स्_३,१।५॥