०४

अन्व् अग्निर् उषसाम् अग्रम् अक्शद् इत्य् आहानुक्शात्या एवागत्य वाज्य् अध्वानं सर्वा मृधो विधूनुता इति मृध एव व्यास्थतैछद् वा एतं प्रजापतिः पूर्वयर्चाविन्दद् उत्तरयैषीद् एवैनं पूर्वयर्चाविदद् उत्तरया द्यौस् ते पृष्ठं पृथिवी सधस्थम् इति द्यौर् ह्य् एतस्य पृष्ठं पृथिवी सधस्थम् आत्मान्तरिक्षं समुद्रो योनिर् इत्य् आत्मा ह्य् एतस्यान्तरिक्षं समुद्रो योनिर् विक्शाय चक्षुषा त्वम् अभितिष्ठ पृतन्यत इति पृतन्यन्तम् एवाभितिष्ठति यं द्विष्यात् तं ब्रूयात् ॥ अमुम् अभितिष्ठ ॥ इति तम् एवाभितिष्ठत्य् उत्क्रामेत्य् आहोत्क्रान्त्या एव यत्र वै यज्ञस्यानुरूपं क्रियते तद् यजमान ऋध्नोत्य् उत्क्रामोदक्रमीद् इत्य् अनुरूपं वा एतत् क्रियते यज्ञस्यावरुद्ध्यै कृष्णो वै भूत्वाग्निर् अश्वं प्राविशत् स एतद् अगछद् यत्र मृगशफो यद् अश्वस्य पदे जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयाद् एतद् वै तद् यद् आहुर् मृगशफम् अरेन्वराड् इति मनस्वतीभ्यां जुहोति मनसा ह्य् आहुतीर् आप्यन्ते त्रिष्टुब्भ्यां जुहोतीन्द्रियस्यावरुद्ध्यय् अन्नवतीभ्यां जुहोत्य् अन्नाद्यस्यावरुद्ध्यै गायत्र्या परिलिखत्य् अस्या एवैनं तेन परिगृह्णाति त्रिष्टुभान्तरिक्षात् तेनानुष्टुभा परिलिखत्य् अनुष्टुब् वै सर्वाणि छन्दांसि परिभूस् तस्माद् अनुष्टुभा परिलिखति सावित्रैर् अभ्रिम् आदत्ते प्रसूत्यै द्वाभ्यां खनति द्विपाद् यजमानः प्रतिष्ठित्यै शुग् वा अत्र प्रजा ऋछति यत्राग्निः खायते चीयते वा यद् आह शिवं प्रजाभ्यो ऽहिंसन्तम् इति प्रजाभ्य एवैनं शिवम् अकः ॥म्स्_३,१।४॥
अविदद् : फ़्न् चोर्रिगेन्द। एद्।: अविन्दद्।